Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ २३ ]
( पञ्जिका ) (१) स्मरस्य सवित्री क एकः स्वरोऽभिदधाति ? (२) समुच्चयवाचकमव्ययं किमस्ति ? (३) समूहार्थः शब्दः कः प्रसिद्धः ? एतत्त्रयमेकीकृतं सत् यत् स्यात् तव सूत्रमत्र । किं तत् ? चतुर्थाध्यायतः सूत्रमिदं स्मरणविषयमानयन्तु ॥५॥
[ अनुष्टुप् ] निषेधविधानार्थ, तुर्याध्यायव्यवस्थितम् । व्यञ्जनादिविसर्गान्त-सूत्रमत्र विचार्यताम् । ५६॥
( पञ्जिका ) वृतां निषेधकार्यकरणाय चतुर्थाध्याये वर्तते सूत्रम्, व्यञ्जनशब्दादिमं विसर्गचरमञ्च तत् विचार्योच्यतामिति ।।१६।।
___ [ अनुष्टुप् ] द्विजिह्वः सूत्रता याया-दद्वितीयो भवेद्यदि । द्वितीयत्वेऽक्षरः स्पष्टं, शब्दशास्त्रं विदाकुरु ॥५७॥
_ (पञ्जिका ) 'द्विजिह्वः' शब्दः सूत्ररूपेण परिणतो भवेद्यदि द्वितीयवर्णस्ततो विघट्यते, तस्थाने च 'वे' वर्णः स्थाप्यते । एवञ्च हैमशब्दानुशासनं स्पष्टमवबुध्यतामिति ॥५७॥ .
[वसन्ततिलका ] . आधत्रयेऽन्तिमयुगे परिवर्तिते यत् , स्यात्तत्र पङ्कजजनिर्विशदा च राका । तुर्यद्वयं तु गमने यदि वा प्रयातो, .... नाबान्तिमा द्वलपमेति वदन्तु पत्रम् ॥५८॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82