Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ २८ ]
भवति । ते हि सर्वे शब्दा अत्र शार्दूलविक्रीडिते स्पष्टं विज्ञेया इति ॥ ६७ ॥
[
अनुष्टुप् 1
यस्मिन् सूत्रे सुगधीश - महाव्याधी निपातितौ । विराजतः सदा शुद्धौ विद्वन् ! तनिपुणं स्मर | ६८ ॥
( पञ्जिका )
सुरपति - महारोगौ यच्छन्दतो ज्ञायेते तौ द्वौ यस्मिन् सूत्रे निपातितौ सन्तौ सर्वदा शुद्धौ शोभेते, तत् सूत्रम् अयि साक्षर ! विशदं
स्मरतात् ||६८ ||
[ वंशस्थम् | पुगे द्वितीयैकवचो वचोऽर्थे, रवेः सुतः स्यात्प्रथमैकवाग्वृतः । मुनीश्वरा यत्र दधुमहामहं त्रयं नियुज्य स्मर हैमलक्षणम् ॥ ६९ ॥ ( पञ्जिका )
यत्र सूत्रे प्रथमं वाणीवाचकशब्दस्य द्वितीया विभक्त्येक वचनरूपनिरूपितं पदं वर्तते । तत आदित्यात्मजांभिधायकः प्रथमैकवचनस्थितोऽस्ति । तत्परतो यदास्ते तत्र मुनिवराणां महोत्सवो जायते । एतवत्रितयमेकत्र संयोज्यम् । एवन हैमशब्दानुशासनस्य सूत्रं प्रकटं भावि । लघु स्मर्यतां किं तदिति ॥६९॥
[ अनुष्टुप् ]
अद्यान्वितं विधायैव - मनाममनरोभवम् ।
सूत्रं संसूत्रितं ज्ञेयं 'कामं विद्यापरो मत्र' ॥७०॥
( पञ्जिका )
'कामं विद्यापरो भव' इति सूक्तपाद: सूत्ररूपेण विधेयः । एतदर्थमेवं कर्तव्यम् उक्तपादं द्यान्वितमद्यान्वितं विदधातु । एवमुक्तः स

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82