SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ [ २८ ] भवति । ते हि सर्वे शब्दा अत्र शार्दूलविक्रीडिते स्पष्टं विज्ञेया इति ॥ ६७ ॥ [ अनुष्टुप् 1 यस्मिन् सूत्रे सुगधीश - महाव्याधी निपातितौ । विराजतः सदा शुद्धौ विद्वन् ! तनिपुणं स्मर | ६८ ॥ ( पञ्जिका ) सुरपति - महारोगौ यच्छन्दतो ज्ञायेते तौ द्वौ यस्मिन् सूत्रे निपातितौ सन्तौ सर्वदा शुद्धौ शोभेते, तत् सूत्रम् अयि साक्षर ! विशदं स्मरतात् ||६८ || [ वंशस्थम् | पुगे द्वितीयैकवचो वचोऽर्थे, रवेः सुतः स्यात्प्रथमैकवाग्वृतः । मुनीश्वरा यत्र दधुमहामहं त्रयं नियुज्य स्मर हैमलक्षणम् ॥ ६९ ॥ ( पञ्जिका ) यत्र सूत्रे प्रथमं वाणीवाचकशब्दस्य द्वितीया विभक्त्येक वचनरूपनिरूपितं पदं वर्तते । तत आदित्यात्मजांभिधायकः प्रथमैकवचनस्थितोऽस्ति । तत्परतो यदास्ते तत्र मुनिवराणां महोत्सवो जायते । एतवत्रितयमेकत्र संयोज्यम् । एवन हैमशब्दानुशासनस्य सूत्रं प्रकटं भावि । लघु स्मर्यतां किं तदिति ॥६९॥ [ अनुष्टुप् ] अद्यान्वितं विधायैव - मनाममनरोभवम् । सूत्रं संसूत्रितं ज्ञेयं 'कामं विद्यापरो मत्र' ॥७०॥ ( पञ्जिका ) 'कामं विद्यापरो भव' इति सूक्तपाद: सूत्ररूपेण विधेयः । एतदर्थमेवं कर्तव्यम् उक्तपादं द्यान्वितमद्यान्वितं विदधातु । एवमुक्तः स
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy