________________
[ २७ ]
- [अनुष्टुप् ] सूत्रमपाहतं. पकौ, कवौ सूत्रमनाहतम् । कादि वावन्तिमं सत्र, त्रियोक्तं किम बुध्यते ॥६५॥
(पञ्जिका ) पकारेण आहतं न पकौ इति सूत्रम् । अकारेण नादृतं कबौ इति सूत्रम् । काचं वो इत्यनाचं सूत्रम् । एवं त्रिवारमुक्तम् तथापि किं बुध्यते न वा ? बुध्यते चेद किन्तद्वदेति ॥६५॥
[ उपजातिः ] युद्धे महामारतनाम्नि जाते, युधिष्ठिरं केऽनुसृता यविष्ठाः । सम्भाविते किं स्वजनेन पार्थ, शोकोऽनुयातो हरिणा हतश्च ॥६६॥
(पञ्जिका ) . (१) महाभारताभिधाने महासङ्गरे सम्प्रवृत्ते धर्मराज के लघुभ्रातरोऽनुगता आसन् ? (२) अर्जुनं निजसम्बन्धिवर्गेण भीष्मद्रोणादिना किं कृते सति शोकः प्राप्त आसीद ? गीतगीतेन कृष्णेन च स शोको दूरीकृतोऽभूव ? अनोत्तरे यवपदं तस्यापकृष्टपक्षाश्रयणरूपोऽर्थः संवेयः ॥६६॥
[ शार्दूलविक्रीडितम् ] सङ्ख्याहः क्षणदाश्च कारदिवसो, दोषा तथा माः प्रमा, कर्नाद्यन्तलिविक्षपारजनयो, नान्दी दिनारूविभाः । वित्रानन्तधनुर्दिवा बलिनिशा, जहा च बाहुलिपिभक्तिः क्षेत्रमितीत्थमेकविकला, त्रिंशत्तराष्टः कृगः ॥६७॥
( पञ्जिका ) सख्यादय एकोनत्रिंशच्छब्दा. सन्ति, ततः कृग्धातोः टः प्रत्ययो