________________
[२६]
ऊष्माक्षराणां प्रथमः । तौ द्वावपि वर्णों क्रमश औकाराकारस्वरसंवलितौ स्तः । सूत्रं लक्षितं भावीति ॥ ६२||
[ शार्दूलविक्रीडितम् ] स्यादाद्याक्षर मुक्त मूर्ध्वगतिकं, प्राज्ञत्वसम्पादकं, ज्ञात्यर्थादिगमं विमध्यमपदं, तमुप्रत्ययान्तं मतम् । अन्त्येनाघटितं स्वार्थवचनं, ङथन्तं श्रुतं लक्षणे, चेतु तृतीय चरणे, दक्षोऽसि तूर्ण वद ॥ ६३ ॥ ( पञ्जिका )
ताह सूत्रं किम् ? यस्य प्रथमवर्णे त्यक्ते सति यद्भवति तदूधर्ध्वगति चेत् प्रज्ञापरिवर्धकं स्यात् । मध्यमाक्षर विरहितं यत् पदं तत् ज्ञातिधनप्रमुख बोध कतस्प्रत्ययान्तरूपं सम्मतम् । चरमवर्णविघटितं यत् स्यात् तत् शब्दवाचक सप्तम्येकवचनङिप्रत्ययान्तं भवति । व्याकरणे वर्णमालायां च प्रसिद्धं तद । चेद श्रीसिद्धहेमचन्द्रशब्दानुशासनरकचतुर्थाध्यायतृतीयपादे कुशलोऽसि तदा शीघ्रं ब्रूहि ||६३ || [ उपजातिः ]
9
स्वादौ तुदादौ च चुरादिके यः क्रयादौ भवेद्धातुरिहाग्रिमः सः । वागर्थकाद्यैकवचो द्वितीय-स्ततोऽनुमुक्तोऽनुदितः किमस्ति ॥ ६४ ॥
( पञ्जिका )
1
तादृशमत्रास्ति सूत्रं यदीयप्रथमो वर्णोऽस्ति धातुरूपः । स च धातुः स्वादिगणे, खुदादिगणे, चुरादिगणे, क्यादिगणे च वर्तते । द्वितीयवर्णो वाणीवाचकशब्दस्य प्रथमैकवचनरूपनिरूपित आस्ते । अत्र विसर्गे ज्ञेयः । सूत्रे विसर्गविरहो न दूषणम्, अपितु शब्दचित्रत्वाद्भूषणमेव । ततोऽनुरहितोऽनुदितः समस्ति । किमस्ति सूत्रमुच्यतामिति ||६४ ||