________________
[२५]
( पजिंका ) __अनेकार्थ संग्रहाभिधाने कोशे श्रीमद्भिहमसूरीशैस्तादृश एकः शब्दो निरूपितोऽस्ति, यस्य स्मरारातिः, स्मरः, सव्यः, रम्यः, स्तनः, प्रतीपम् इति षडा जायन्ते; परं व्याकरणे तैरेव सूरिवयः स एव शब्दो भिन्नरूपेणोक्तार्थत्यागेनान्यार्थशापकत्वेन नियोजितो वर्तते चित्रमेतत् । कः स शब्दः सूत्ररूपस्तद्विचार्योच्यतामिति ६०॥
. [ हरिणी ] प्रथममिह य-उछदस्य स्या-अलिङ्गजसन्तिमं, द्वयमथधृतं तस्यैवैकं वचश्च तृतीयया । चरमयुगलं प्रान्तकं वा विकन्पकमव्ययं. वदतु विशदं सूत्रं विद्वन् ! प्रगृह्य चतुर्थनः ॥६१॥
(पञ्जिका ) . (१) प्रकृतसूत्रस्याचावयवो यच्छब्दस्य पुंसि प्रथमावहुवचनं भवति । (२) सूत्राद्याक्षरद्वयं चेदुपात्तं तदा यत्सत्कं तृतीय कवचनं स्यात् । (३ चरमवर्णद्वयं सूत्रसत्तमन्त्यमेकमक्षरमथवा गृहीतं सद् विकल्ार्थावगमकमव्ययं भवेत् ! चतुर्थाध्यायतो गृहीत्वा विशदं सूत्रं वदतात अयि विद्वन् ! ॥६१॥
- [ अनुष्टुप् ] वर्गभिमाक्षर द्वन्द्व - मन्तस्थान्तमनादिमम् । ऊष्माक्षरादिमं धुर्य, स्वावौदाच लक्ष्यताम् ॥६२।।
(पञ्जिका) अस्ति सूत्रमेकमेताहग यत्र वर्गीयो नैकोऽपि वर्तते वर्णः। अथ च तद्वर्णद्वयविलसितम्, तत्रान्तो वर्णोऽन्तस्थातुर्यः । अथ च प्रथम