Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 57
________________ [३२] न स्यात, सार्वागमावगमाय स्त्रीपरित्यागो नितरामावश्यक इति यावत् । ७७|| 1 [वसन्तविलका ] माने गते प्रथमकाव्यरसो वियुक्तो, माने चकासति सति स्फुरते. पदार्थः । माने न गौरवर पैति सदासु विद्वान्, माने द्विवर्णवचनात् प्रविधीयते पञ् ।७८॥ (पञ्जिका ) माने गर्वे दूरीमूते काव्यात्मनवरसमध्यस्थितः प्रथमः सम्भोगशृङ्गाराख्यो रसो वर्ण्यते । यद्वा मानेऽभिमाने गते-स्थितिमाप्ते जने विप्रलम्भः शृङ्गारो निरूप्यते । प्रमाणे परिस्फुरति सति पदार्थः • प्रकाशते । अहङ्कारे सति सभासु सुधीः सम्मानं न लभते । यद्वा सम्मानेन सुधीः समासु गौरवं लभते । 'माने' इति सूत्रतो वर्णयुग. लात्मतो 'घ' प्रत्ययो भवति ॥७॥ . _ [ अनुष्टुप् । 'अनं' समर्पिते सूत्रे, जायते यत् प्रियं वचः । वसन्ते विपरीतं तद्, वर्षास न विरुष्यते ॥७९॥ (पञ्जिका ) तादृशमेकं सूत्रं वर्तते यत्र 'अनम्' इति समर्पिते सति यद्वचनं भवति तत् प्रियत्वेनानुभूयते । वसन्तौ तत् 'वसन्ते भ्रमणं पथ्यम्' इतिवचनाविरुद्धं स्यात् । वर्षौं तु 'वर्षासु च न गच्छति' इत्युक्तेनप्रतिकूलं भवति । तत् सूत्रं किम् ? तत् प्रोच्यताम् ॥७९।। . [ अनुष्टुप् ] - कारणं दुःखजातस्य, संसार एव कारणम् । कारणमिति समेष स्यात् कुगोऽनटि कारणम् ॥८॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82