Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 58
________________ [ ३३ ] ( पञ्जिका ) कुत्सितरणरूपः संसारः खलु दुःखनिकरस्य निदानम् । कारणमित्यात्मकसूत्रेण कृग्धातोरनटि प्रत्यये सति कारणमिति रूपं भवति ||८०|| [ अनुष्टुप् ] नर्मदां बोधयेाद्य - मनन्त्यं परमेऽर्थकम् । पादिशन्तं जसन्तं वा ज्ञातं चेद्रद नोऽचिरम् ॥ ८१ ॥ ( पंजिका ) (१) प्रथमवर्णविरहितं सूत्रं नर्मदानदीवाचकं भवति । (२) चरमवर्णविमुक्तं तत् परमे इत्यर्थकं वर्तते । ( ३ ) पकारादिरकारान्तं यच्छन्दरूपं तचेज्जस्प्रत्ययान्तरूपनिरूपितं सद् वान्तं सूत्रं भवति । चेद्विज्ञातं वदतादस्माकमचिरेणेति ॥८१॥ [ इन्द्रवज्रा ] 'कुत्राचलं सत् चलपत्र पत्रं, दृष्टे प्रिये काभिरतो वियुक्तः, धातोः कृतः मिष्यति सप्तमीष्टा । सूत्रं द्विवर्णं स्मर चित्र चित्रम् ॥ ८२ ॥ ( पञ्जिका ) (१) चञ्चलं चलपत्रपादपपर्णं निश्चलं कस्मिन् विलोक्यते ? (२) विप्रयुक्तो जनः प्रियजने कुत्रावलोकिते सति स्याद प्रीणित: ? (३) अभिमताः सप्तमी प्रत्यया धातोः कुतः सूत्रतः सम्भवन्ति ? वर्णयुगलात्मकमाश्चर्यकरं सूत्रं स्मरतात् ||८२|| . [ शालिनी ] पारावारे हूस्वतामादिभागे, तार्तीयीकं ह्स्वरूपं विदध्यात् । अध्यायेऽस्मिन् पञ्चमे सूत्रमुक्तं, तुर्ये पादे शोध्यतां बुध्यते चेत् ८३ ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82