Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ २९ ]
( पञ्जिका )
यद सूत्रस्याद्याक्षरद्वयेन पृथिव्यां विषमार्थो न जायते, अन्तिमाक्षरयुगलेन वचनार्थक शब्दस्य प्रथमा बहुवचनरूपं भवति, आदिमान्तिमवर्णद्वययोगेन यद्भवति तेन कमलाकर तटाकोऽभिधीयते । तादृशं वर्णचतुष्टयात्मकं सूत्रं किमस्ति तद् अथि अक्षरविज्ञ-साक्षर ! वदेति शेषः ||५०॥
[ पृथ्वी ] यदी पर माक्षरो भवति वै विशेषार्थ को, द्वितीययुगलाक्षरे सति जयोऽथवा निश्चयः । अनन्तिमपदे पुनः कलहकर्म नित्यं भवेतो युगलाद्दिवि स्थितिभृतोऽस्ति सूत्रं स्मर ॥ ५१ ॥
( पञ्जिका )
यस्य सूत्रस्यादिमो वर्णो विशेषार्थद्योतको वर्तते । द्वितीययुगले गृहोते सति जयो निश्चयो वा भवति । अन्तिमवर्णमपहाय यत्पदं भवति तत्र सति सदैव कलहक्रिया भवति । तृतीय युग्मवर्णतो यत्पदं स्यात्तदमरवाचकं प्रथमा बहुवचनं विसर्गे सति स्यात् । एतदनुगमकं सूत्रं स्मृत्वा ब्रूहि ॥५१॥
[ अनुष्टुप् ]
अस्ति सूत्रं नवं वाचि प्राचि विप्रं विभाव्यते । अचिरं तदरं ज्ञेयं, यदि व्याकरणं कृतम् ॥५२॥
( पञ्जिका )
' व' विरहितं 'वाचि' सूत्रं वर्तते । 'प्र' त्यक्तं 'प्राचि' सूत्रं समस्ति । 'अचिरम् ' रविधुरं सूत्रं भवति । यदि शब्दशास्त्रं हैमं दृढमभ्यस्तं तदाऽरं तत् सूत्रं वदेति ||१||

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82