________________
[ २२ ] [ मन्दाक्रान्ता ] कान्तोऽकान्तो नव इह नवः सद्विलोडसद्विलोsसौं, क्षान्तः क्षान्तः स्वरससरसोऽनृत् तथा सूनृतश्च । सूत्रव्यक्तीकरणकुशलो मानसे सभिरूतः, शब्दापः संशरणशरणं सेव्यतां कल्पवृक्षः ॥५३॥ ( पञ्जिका )
शब्दात्मकापः संझरण निकेतनं कल्पवृक्षः स्वाभिमतसूत्रप्रकटीकरणनिपुणो मानसे सन्निरूढोऽस्ति स सेव्यताम्, सूत्राविष्क्रियताम् । कीरशोऽयमास्ते ? कान्तोऽप्यकान्तः ककारविमुक्तः, दुःखविनाशकरणच । ववर्णविरहितस्तथाऽत्र प्रकरणे नवीनः । सद्विगतलकारः, अथ चाविद्यमानबिलः । क्षाक्षरविकलितः क्षमान्वितः, स्वरसतया रसोपेतः, ऋता मुक्तः, सत्यस्वरूपश्च आस्ते । कल्पवृक्षः उक्तविशेषणविलसितः सम्यविचारचर्चामापाते तदा सूत्रं व्यक्तं भवेदेवेति सुनिश्चितम् ||५३||
[ अनुष्टुप् ] क्रियाकलापदाही कः कश्च विश्वासभञ्जम । देरित्यादि सिद्धयर्थं सूत्रं किमुपयुज्यते ॥ ५४ ॥
( पञ्जिका )
सूत्रं यत्पदानकमास्ते तत्पदार्थः स क्रिया समूह विनाशकः । अथ च प्रत्ययविघटको भवति । देभतुः, देमुरित्यादिरूपसिद्ध सूत्रमिदं समुपयुज्यते । तद्वै किमस्ति ? उच्यतामिति ॥ ५४ ॥ |
[ उपजातिः ]
वदेत् स्वरः को जननीं सुमेषोः, समुच्चयार्थ किमिहाव्ययं स्यात् । समूहवाची प्रकटः स्वरः कः, सूत्रं चतुर्थात् स्मृतिमानयन्तु ॥ ५५॥