Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ २ ]
( पञ्जिका )
यत् पूजनीयम् उत्तमार्हतां सम्बन्धि श्रेष्ठतरं श्रेयः श्रेणिसदनम् ( अस्ति ), ( पुनः ) यत् पञ्चवर्णात्मकम् अव्ययस्वरूपम्, साधुसमूहध्यानविषयीभूतं तेजः ( अस्ति ) ( अपि च ) यत् स्थिरचित्तेन ध्यानविषयीकृतं सत् सुरसदन - मोक्ष निलयदायकम् ( अस्ति ) तत् स्वतन्त्र - शास्त्र तिलकरूपं हैमं मन्त्रभूतं किं समाराध्यते ? उच्यतां प्रतिवचः ॥२॥ [ शिखरिणी ]
अयोगानां योगाद् भवति किमु कर्मक्षयमयी, पदं नानाधर्मा - वगमगमकं किं परिचितम् । जयो वा सिद्धान्तः प्रभवति कुतः साधुकरणाद्, भवेत् का शब्दानां कुत इति पठेद्वैमवचनम् ||३|| ( पञ्जिका )
(१) योगरहितानामात्मनां सम्बन्धेन यद्वा परमगुणस्थानस्थितानां वर्ययोगतः सकलकर्मक्षयात्मिका का स्यात् ? (२) विविधविरुद्धधर्मबोधजनकं किं पदं प्रसिद्धम् ? (३) सुष्ठु विधानात् कस्मात् किल विजयो निश्चयो वा जायते ? (४) कस्मान् ननु सामर्थ्यात् शब्दानां का स्यात् ? इति प्रश्नच तुष्कोत्तरार्थ हैमवचनं - श्रीसिद्धहेमचन्द्रशब्दानुशासन सत्कं सूत्रमभ्यस्येत् ||३||
[ आर्या ]
व्याकरणं यदि पुरतो व्यालः पुरतः पुरस्कृतो भवति । अति कृष्टे स्याद् दुःखा - नैवाकृष्टे तु विपरीतम् ॥४॥
( पञ्जिकर )
एकमेतादृशं सूत्रं स्मर्यताम् - यस्य पुरतः प्रथमं व्याकरणं 'व्या' इत्यक्षरविधानं यदि - तदाऽग्रे व्यालो भवति प्रकटः, ततश्चाकारे

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82