Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 14
________________ कातन्त्रव्याकरणम् ५.धुडादिपादश्च। एतेषु पञ्चसु पादेषु ३१६ मितानि सूत्राणि वृत्तिकारेण दुर्गसिंहेन, टीकाकारेण दुर्गसिंहेन, विवरणपञ्जिकाकारेण त्रिलोचनदासेन, कलापचन्द्रकारेण आचार्यसुषेणविद्याभूषणेन च व्याख्यातानि। एतासां चतसृणां व्याख्यानामत्र सम्पादने हेतुरयमवश्यमवगन्तव्यो यत् पाणिनीयवाङ्मये यत् स्थानं वर्तते पातञ्जलमहाभाष्यस्य तदेव स्थानं कातन्त्रवाङ्मये वर्तते दुर्गवृत्तेः। एवमेव दुर्गवृत्तिटीका काशिकावृत्तिवत्, विवरणपञ्जिका जिनेन्द्रबुद्धीयन्यासवत् , कलापचन्द्रश्च हरदत्तकृतपदमञ्जरीवदाभाति। अत्र यत् किञ्चिद् विविधं वैशिष्ट्यं दृश्यते, तदिह संक्षेपेणोपनिबद्ध्यते - सूत्रकारादीनामभिमतानि १. सिद्धपक्षे योक्तवर्जम् इत्यस्य व्यावृत्तिबलान भविष्यतीति चेत,न। सूत्रकारमतमिदम् (३/४/६९)। २. शर्ववर्मणस्तु नोपलक्षणं सम्मतम् (३/५/४) । ३. सूत्रकारमतं वर्णयन्ति-नियमाथों योपविभाग: स इत्यविभक्तिकोऽयं निर्देश: (३/७/५)। ४. तन्मतं सूत्रकारस्येति भावः (दु०टी०३/८/२३) । ५. सूत्रकारमतं तु क्विबेवात्र न दृश्यते (३/८/२७) । ६. सूत्रकारमतं तु क्विबेवात्र न दृश्यते, वाक्यकारसम्मतमेतत् (३/८/२७) । ७. एकयोगो वाक्यकारस्य दर्शनम् (दु०टी०३/७/६) । ८. नैतद् भाष्यसम्मतम् (दु०टी०३/७/३५) । ९. संश्लिष्टनिर्देशोऽयं भाष्यसम्मतः पक्षः (दुल्टी०३/८/२१) । १०. नैतद् भाष्यचिन्तितम् (दु०टी० ३/८/२३) । शिष्टव्यवहारस्य प्रामाण्यम् १. श्वयतिग्रहणमनर्थकमेव स्यादित्ययमेव पक्षः शिष्टसंमतः इत्यर्थः (दु०टी० ३/६/६)। २. यदि शिष्टप्रयोगो दृश्यते इति भावः (दु०टी० ३/६/२४) । ३. यदि शिष्टप्रयोगो दृश्यते तदैतद् वक्तव्यमिति वाशब्देन शिष्टप्रयोगादर्शनान्न वक्तव्यमेवेति सूचयति (वि०प० ३/६/२४)। ४. शिष्टप्रयोगानुसारेणापरेऽप्येवं वेदितव्याः (वि०प०३/८/२६) । रूढेर्व्यवहारः १. शर्ववर्मणा कुल्लक्षणं न कृतम्,तस्मादृशमेव रूढमाश्रितमित्यर्थः (बिल्टी० ३/४/२)।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 662