________________
कातन्त्रव्याकरणम् ५.धुडादिपादश्च। एतेषु पञ्चसु पादेषु ३१६ मितानि सूत्राणि वृत्तिकारेण दुर्गसिंहेन, टीकाकारेण दुर्गसिंहेन, विवरणपञ्जिकाकारेण त्रिलोचनदासेन, कलापचन्द्रकारेण आचार्यसुषेणविद्याभूषणेन च व्याख्यातानि। एतासां चतसृणां व्याख्यानामत्र सम्पादने हेतुरयमवश्यमवगन्तव्यो यत् पाणिनीयवाङ्मये यत् स्थानं वर्तते पातञ्जलमहाभाष्यस्य तदेव स्थानं कातन्त्रवाङ्मये वर्तते दुर्गवृत्तेः। एवमेव दुर्गवृत्तिटीका काशिकावृत्तिवत्, विवरणपञ्जिका जिनेन्द्रबुद्धीयन्यासवत् , कलापचन्द्रश्च हरदत्तकृतपदमञ्जरीवदाभाति। अत्र यत् किञ्चिद् विविधं वैशिष्ट्यं दृश्यते, तदिह संक्षेपेणोपनिबद्ध्यते -
सूत्रकारादीनामभिमतानि
१. सिद्धपक्षे योक्तवर्जम् इत्यस्य व्यावृत्तिबलान भविष्यतीति चेत,न। सूत्रकारमतमिदम् (३/४/६९)।
२. शर्ववर्मणस्तु नोपलक्षणं सम्मतम् (३/५/४) ।
३. सूत्रकारमतं वर्णयन्ति-नियमाथों योपविभाग: स इत्यविभक्तिकोऽयं निर्देश: (३/७/५)।
४. तन्मतं सूत्रकारस्येति भावः (दु०टी०३/८/२३) । ५. सूत्रकारमतं तु क्विबेवात्र न दृश्यते (३/८/२७) । ६. सूत्रकारमतं तु क्विबेवात्र न दृश्यते, वाक्यकारसम्मतमेतत् (३/८/२७) । ७. एकयोगो वाक्यकारस्य दर्शनम् (दु०टी०३/७/६) । ८. नैतद् भाष्यसम्मतम् (दु०टी०३/७/३५) । ९. संश्लिष्टनिर्देशोऽयं भाष्यसम्मतः पक्षः (दुल्टी०३/८/२१) । १०. नैतद् भाष्यचिन्तितम् (दु०टी० ३/८/२३) । शिष्टव्यवहारस्य प्रामाण्यम्
१. श्वयतिग्रहणमनर्थकमेव स्यादित्ययमेव पक्षः शिष्टसंमतः इत्यर्थः (दु०टी० ३/६/६)।
२. यदि शिष्टप्रयोगो दृश्यते इति भावः (दु०टी० ३/६/२४) ।
३. यदि शिष्टप्रयोगो दृश्यते तदैतद् वक्तव्यमिति वाशब्देन शिष्टप्रयोगादर्शनान्न वक्तव्यमेवेति सूचयति (वि०प० ३/६/२४)।
४. शिष्टप्रयोगानुसारेणापरेऽप्येवं वेदितव्याः (वि०प०३/८/२६) । रूढेर्व्यवहारः
१. शर्ववर्मणा कुल्लक्षणं न कृतम्,तस्मादृशमेव रूढमाश्रितमित्यर्थः (बिल्टी० ३/४/२)।