________________
भूमिका
२. आचार्यास्तु च्विशब्दं न पठन्ति, रूढिशब्दा हि तद्धिता इति (दु०टी० ३/४/६९) ।
३. रूढिशब्दा हि तद्धिता इत्याचार्याश्च्विग्रहणं न कुर्वते (दु०टी० ३/४ /७१) । ४. परदर्शने ये निपातास्ते रूढाः (दु०टी०३ / ४/७७) ।
५. अशनायोदन्यधनायाः बुभुक्षापिपासाकाङ्क्षासु निपाता रूढाः (दु०वृ० ३/४/७७) ।
६. रूढिशब्दा हि तद्धिता इति च्वावीत्वं मन्यते (दु०टी० ३/४/७७) |
७. परदर्शने ये निपाता रूढास्त इह धातवोऽभिधीयन्ते (वि०प० ३/४/७७) ।
८. वेञ उभयपदित्वात् परस्मैपदित्वं रूढिविषयम् (दु०टी०३/४/८०) ।
९. कथं पृच्छनीयम् ? रूढित्वात् (दु०वृ० ३/५/२७) ।
१०. स इह रूढो गृह्यते (दु०टी० ३/६/१) |
११. दश्यतेऽनेनेति दशनो दन्त इति करणेऽपि भवति, रूढित्वाद् वा (वि०प० ३/६/४)।
१२. रूढित्वात् शादयति संशयनिवृत्त्यर्थम् (दु०टी० ३/६/२६) । १३. (श्वश्रूयते) अपि तु विशिष्टमेव रूढम् (दु०वृ०३/६/६१) । सूत्रकारस्य रचाया वैचित्र्येण कश्चिदाक्षेपः
१. स्थादोरिः सिच्यात्मने इति विदध्यात् । विचित्रा हि सूत्रस्य कृतिरिति (दु०टी० ३/५/२९) ।
२. ननु स्फायेर्यो व इति कथन्न कृतम् ? सत्यम् । विचित्रा हि सूत्रस्य कृतिरिति (बि०टी०३/६/२५)
सम्प्रदायस्य प्रचलितत्वात् कातन्त्रस्य प्रतिष्ठा
१. कथं विषयान्तरं प्रतिबन्धुं क्षमते इति सम्प्रदाय: ( बि०टी०३ / ४/४) ।
२. एकयोग इति सम्प्रदायः (बि०टी०३ / ४/५ ) ।
३. आकारस्यानित्यत्वं बोधयतीति सम्प्रदायः (बि०टी० ३/४/२९) ।
४. अतः पुंवदिति सम्प्रदायः (बि०टी०३/६/४२) ।
५. अन्यथा तदुपादानं व्यर्थं स्यादिति सम्प्रदायः (बि०टी०३/८/२४) ।