Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 13
________________ ।। श्रीः ।। भूमिका अहो श्रीकातन्त्रप्रणयनविधिः कोऽपि सुगमः समारब्धः सन्यौ पुनरपि च नाम्नां विवरणे । अथाख्याताध्याये स्वमतिविभवैः सूत्रविदितः कुमाराणां श्रेयो बुधजनमनोज्ञं वितनुते ।। कार्तिकेयप्रसादेन शर्ववर्मसुधीमता । सातवाहनभूपाय प्रतिज्ञातेन यत्नतः ।। इदं नाविदितं विदुषां यद् आन्ध्रदेशाधिपतेः सातवाहनस्य विदुषी राज्ञी यद् ‘मोदकं देहि' इति वचनं साधिक्षेपमुक्तवती तदधिकृत्य शाब्दिकाचार्यशर्ववर्मणा प्रणीतस्याध्यायत्रितयात्मकस्य एकोनविंशतिपादान्वितस्य पञ्चपञ्चाशदधिकाष्टशतसूत्रोपेतस्य (८५५) कातन्त्रव्याकरणस्य प्रकाशितेषु चतुर्यु खण्डेषु एकोनचत्वारिंशदधिकपञ्चशतमितानि (५३९) सूत्राणि व्याख्याचतुष्टययुतानि समीक्षितानि सन्ति । तत्र १९९७तमे यीशवीयाब्दे प्रकाशिते सन्धिप्रकरणात्मके प्रथमभागे पञ्चसु पादेषु स्वर-व्यञ्जन-प्रकृतिभाव-अनुस्वारविसर्गाभिधाः पञ्च सन्धयो वर्णिताः । तेन मोदकम्' इति पदे 'मा+उदकम्' इति सन्ध्यभिप्रायः प्रपूरितः। १९९८ तमे यीशवीयाब्दे प्रकाशितस्य नामचतुष्टयात्मकस्य द्वितीयभागस्य प्रथमखण्डे आद्यास्त्रयः पादाः,१९९९ तमे यीशवीयाब्दे प्रकाशिते द्वितीयखण्डे चान्तिमास्त्रयः पादा व्याख्याताः। अनयोर्द्वयोः खण्डयोः पुंलिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गशब्दानां कारक-समासतद्धितप्रकरणानां चोपन्यासेन 'मोदकम् ' इति स्याद्यन्तपदेनोपलक्षितानि कार्याणि संक्षेपेण सूत्रेषु निबद्धानि । ___ 'देहि' इति यदाख्यातपदमवशिष्टं तस्यैव सम्पूर्तये शर्ववर्माचार्येणाष्टसु पादेषु त्याद्यन्तपदरूपाख्यातविषयः प्रस्तुतो दृश्यते । तस्यैव विवेचनार्थम् अथवा सन्धिभागे वर्णानाम् नामचतुष्टये स्याद्यन्तपदस्य च वर्णनानन्तरं वाक्यस्य संपूर्तयेऽपेक्षितानां क्रियापदानामन्वाख्यानार्थं तृतीयभागस्य प्रथमखण्डे आख्याताध्यायस्य १२३ सूत्रात्मकास्त्रयः पादाः संगृहीताः सन्ति। पादास्ते एवमवगन्तव्याः- परस्मैपादः, प्रत्ययपादः, द्विर्वचनपादश्चा तृतीयभागस्यास्मिन् द्वितीयखण्डे आख्याताध्यायस्यावशिष्टाः पञ्च पादाः वर्तन्ते१.सम्प्रसारणपादः, २.गुणादिपादः, ३.अनुषङ्गलोपादिपादः, . ४. इडागमपादः,

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 662