Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 11
________________ [५] नागर्यादिलिपिबद्धं सद् भारताद् बहिरपि लोकप्रियतामवाप । श्रीलङ्काभूटाननेपालतिब्बतादिक्षेत्रेषु सविशेष ग्रन्थरत्नमिदं विद्वज्जनाऽभीष्टं जातम् । एवं सत्यपि प्रश्नोऽयमनुत्तरित एव तिष्ठति यत्कस्मादिदं व्याकरणं निजोदयभूमावेव प्रसिद्धिं नोपगतम् ? जैनमतावलम्बिनोऽपि यथेमं व्याकरणग्रन्थमात्मनीनं समुद्घोषयन्तोऽस्य प्रचारप्रसारार्थ बद्धपरिकरा दृश्यन्ते कथं नेत: पूर्व तथाऽदृश्यन्त ? अनुसन्धानविषयोऽयं वृत्तान्तः। सुखेन व्याकरणविषयावबोध: स्यादिति कातन्त्रव्याकरणकारस्य प्रतिज्ञा । सा प्रतिज्ञा चरितार्था दृश्यते ग्रन्थेऽस्मिन् । केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानस्य सारनाथस्थस्य शब्दविद्यासङ्कायाध्यक्षा विविधविद्याविद्योतितान्त:करणाः सततस्वाध्यायात्मसात्कृतसारस्वतवर्चस्वा आचार्यजानकीप्रसादद्विवेदाः कतिपयहायनेभ्य: कातन्त्रव्याकरणस्य समुद्धाराय प्रयत्नवन्तो वर्तन्ते । श्रीदुर्गसिंहकृतां कातन्त्रवृत्ति कातन्त्रटीकां, त्रिलोचनदासकृतां कातन्त्रवृत्तिपञ्जिकां, कविराजसुषेणशर्मकृतां कलापचन्द्रटीकां, बिल्वेश्वरकृतां टीकाञ्च सम्यगनुशील्य प्रो० द्विवेदमहोदया राष्ट्रभाषोपनिबद्धया स्वसमीक्षया कातन्त्रव्याकरणस्याभिप्रायं प्रकाशितवन्तः। तत्सारस्वताध्यवसायोऽसौ सम्प्रति सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनसंस्थानेन विविधैः खण्डैः प्रकाश्यते । इतः पूर्वं सन्धिप्रकरणात्मकः प्रथमभाग: १९९७ मितख्रिस्ताब्दे, द्वितीयभागस्य प्रथमखण्डो नामचतुष्टयाध्यायस्य पूर्वार्धपादत्रयात्मक: १९९८ मितख्रिस्ताब्दे, तस्यैवाध्यायस्योचरार्धपादत्रयात्मको भागो द्वितीयभागस्य द्वितीयखण्डात्मक: १९९९ मितख्रिस्ताब्दे, तृतीयभागस्य प्रथमखण्ड: क्रियापदान्वाख्यानात्मकः २००० मितख्रिस्ताब्दे क्रमेण प्राकाश्यमुपगताः । सुमहान्तमिमं विद्याध्यवसायमवलोक्य पण्डितवर्याणामाचार्यजानकीप्रसादद्विवेदानां दिल्लीस्थश्रीकुन्दकुन्दभारतीन्यासस्य प्रवरसमिति: १९९९ तमे ख्रिस्ताब्दे विद्वत्तल्लजांस्तान् आचार्योमास्वामिपुरस्कारेण लक्षमुद्रात्मकेन कातन्त्रसिन्धूपाधिना च मध्येविद्वत्कदम्बकं सम्मानितवतीति महते प्रमोदायाऽस्माकं शारदासपर्यार्पितजीवितानाम् । तस्यैव ग्रन्थरत्नस्य तृतीयभागीयो द्वितीयः खण्ड इदानीं मत्कौलपत्ये प्राकाश्यमुपनीयत इत्यहोऽस्मदीयं सौभाग्यम् ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 662