________________
कंसवधकाव्यस्याज्ञातप्रणेतृका
संस्कृतच्छाया
[प्रथमः सर्गः] [१ सिरीअ णाहो]-श्रियो नाथः शिखिपिञ्छशेखरः स्निग्धगोपीनयनाञ्चलाञ्चितैः, स्वयं यशोदातनयत्वं गतो विभुयंभूषयद्गोपवाटिकाम् ॥ १ ॥
[२ कहं खु]-कथां खल्वस्य कंसवधं सुखावहां सुधामिव गृह्णीत वले सुधीजनाः, सदा गुरूणां चरणौ समाश्रितो भणामि यां भक्तिगुणेन नुन्नः ॥ २ ॥
[३ अहेकदा]-अथैकदा चक्रमणशीलो व्रजाङ्गणे दिनान्तगोदोहनव्यापृताङ्गने, सहाग्रजः सोऽभिसरन्तमग्रतो गदाग्रजोऽद्राक्षीद्गान्दिनीसुतम् ॥ ३ ॥
[४ रआइ ]--रजांसि रेखारथशङ्खपङ्कजध्वजाङ्कितानि प्रविलोक्ये भूतले, तस्मिन्नमन्तं पुलकालिपक्ष्मूलप्रमोदबाष्पाविफुल्लविग्रहम् ॥४॥
[५ खणे खणे]--क्षणे क्षणे ध्याननिमीलितेक्षणं नम्यमानमौलिप्रणिवेशिताञ्जलिम्, असंभ्रमं संस्मरन्तमग्रतो लसन्तमात्मानमनन्तकौतुकम् ॥ ५॥
१ M शेखरं. २ ॥ °ञ्चितम्. ३ [विभुविभूषयति गोप° ] ४ T कथं. ५ T कंसवधः. ६ T सुधावहा. ७ T व्रजाङ्कणे. ८ [ पश्यति ( द्रक्ष्यति ) गान्दिनी° ]. ९ T प्रलोक्य. १० T नमन्तः. ११ विग्रहः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org