Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 28
________________ स्वीक्रियते, तस्यायमेवाभिप्रायः स्यावत् जीवस्य तदीयं स्वरूपममहत्य, तस्य जीवत्वमेयाः विनाशोऽचीवरेण्याः प्रादुर्भावस्तथा च ज्ञानस्यापि जीवविरहात् निराश्रयात्मकत्वात् विनाशो भवतीति । अतएव जैननिस्यास्मनाविनाभावसम्बन्धः स्वीकृतः । अस्मात्कारणादेव मोक्षेऽप्यात्मा झस्वभावात्केवलमास्मन्येव विचरति । प्रकृतेर्भारो यदास्मना परित्यज्यते, तदा तदभारवियुक्तः सन् स्वभावत ऊर्वयमनात सिद्धानामन्तिकं लोकान्तमधिगच्छति । तदेतन्मोक्षावाप्त्यै यथार्थसत्तायां विश्वासः, संशयभ्रान्तिरहित यथार्थतत्वज्ञानम्, जगत: बाह्यपदार्थेषु रागद्वेषादिभावविरहितं माध्यस्थ्यरूपम् यथार्थाचरणञ्चेति जिनोपदिष्टानि त्रीण्येव रत्नानि समुदितानि मागंभूतानि। जीवस्य नूनकर्मणा निरोधाय सदाचारः (सम्यक्चारित्रम्) आवश्यकः, सम्यग्दर्शनज्ञानयुक्तेऽप्यस्याभावे न जीवेन कथमपि मुक्ति: प्राप्या भवति । यदाच मुमुक्षुणा जीवेन सम्यग्दर्शनज्ञानमधिकृत्य मोक्षावाप्त्य सम्यगाचरणं विधीयते, तत्र क्रमशः सफलत्वमधिगच्छता श्रेण्यारोहण च विधास्यता यदा केवलत्वमुपलभ्यते, तत एव सः सांसारिकबन्धनात्सर्वथा विमुक्तो जायते, किन्तु जैनदर्शनानुसारेण यावत्पूर्वकर्मजन्यमायुष्कर्म न सर्वथा क्षयमधिगच्छति, तावद् देहयुक्त. सन्नत्रैव (जगति) सम्यगाचरणं पुष्टतरं विदधाति । तत्र केवलत्वाधिगतावस्थातः समारभ्य यावत्तेन न निर्वाणमुपलभ्यते, तावत्कालिकी तस्यावस्था मोक्षलाभे सत्यपि, सिद्धान्तिकत्वाभावात् नव स 'सिद्ध' इत्यपि वक्तु शक्यते, नापि च जगति स्थितावपि लब्धमोक्षोऽय 'जीव' इत्यप्यभिधातु शक्यते । अत एवेयमवस्था जैनदर्शने जीवन्मुक्तपदेनाभिहिता, येन ज्ञायते यदय जीवो मोक्षलाभे सत्यपि जगति स्थितः निर्वाण प्रतीक्ष्यमाणस्तिष्ठति । अन्ते च परमात्मत्वमधिगम्य निर्विकारो निरजनः सजायते। प्रबन्धममुमत्रभवता समक्षमुपस्थापयितु सक्षमोऽह श्रीलालबहादुरशास्त्रि:केन्द्रीयसस्कृतविद्यापीठस्य (तदानी) निदेशकपदमलकुर्वता श्रद्धास्पदाना डा० श्रीमण्डनमिश्रमहोदयाना च स्नेहात्सरक्षणाच्च शोधच्छात्रवृत्तित्वं प्राप्तः, जनदर्शनविभागाध्यक्षाणा मान्याना डा०लालबहादुरशास्त्रिमहानुभावानां, सहजोदारप्रकृत्या तत्त्वबोधिन्या बुद्ध्या च मार्गनिर्देशने प्रबन्धप्रारूपविनिश्चयनात् पूर्णताप्राप्तिपर्यन्त साहाय्यमुपगतः, (सम्प्रति) शोधविभागीयप्रवाचकपदमलकुर्वता गुरु-मित्र कल्पानां डा० रुद्रदेवत्रिपाठिमहोदयाना, येभ्यो विविधानि ग्रन्थरत्नानि शोध-विषयसम्बद्धचर्चणफलितानि चावाप्तः, पुराणेतिहासव्याख्यातृणा (स्थानीय)सरक्षककल्पानामाचार्यश्रीरमेशचतुर्वेदाना, राजनीतिविषयव्याख्यातृणामग्रजकल्पानां श्रीसतीशकीलावतमहाशयानां शोधप्रबन्धस्य टङ्कणविधौ सौलभ्य प्राप्तः, विद्यापीठीयपुस्तकालयाध्यक्षाणामन्येषाञ्चाध्यापक-कर्मचारिवृन्दाना येषामत्र सहयोगोधिगतस्तेषां सर्वेषामपि चिरकृतज्ञोऽस्मि । प्रास्ताविकम्


Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190