Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 114
________________ सति ज्ञानतन्तूनां क्षीणत्वं, स्मृतेभ्रंशः, उन्मादादीनामाविर्भावश्चापि जायते । आत्मनः संसरणशीलत्वात् शरीरे बद्धत्वेऽपि गत्यात्मकत्वमस्ति । यद्यात्मा शुद्धः स्यात्तर्हि शरीरसम्बन्धस्य न किञ्चित्कारणमन्यत् । शरीरसम्बन्धस्य १५६ राग-द्वेष-मोह कषायादिभावा: हेतुभूताः, शुद्धात्मनि चैतेषां परिणामानां भावो शुद्धात्मकत्वादशक्य: “" स्यात् । किन्त्वेते विभावास्तेषां शरीरसम्बन्धरूपं फलञ्च प्रत्यक्षतयैवानुभूयेतेऽतो ज्ञायते यदद्यावधिरियमस्याशुद्धपरम्परैव प्रचलन्ती विद्यते । अस्यायमेवाभिप्रायो यज्जीवस्य रागद्वेषादिवासना, पुद्गलकर्मबन्धसन्ततिश्च बीजवृक्षसन्ततिवदनादित एव वर्तन्ते । पूर्वोपार्जितकर्मोदयाद्रागद्वेषादयस्समुत्पद्यन्ते, तदा च या जीवस्यासक्तिः, सैव कर्मबन्धहेतुर्भवति । किन्त्वत्र न केवलं पूर्वोपार्जितकर्मभोगान्नवीनानां कर्मणां बन्धो जायतेऽपि तु तत्र (भोगकाले) नूत्नरागादिभावानामुत्पत्तिरपि बन्धहेतुरूपोत्पद्यते । नूत्नकर्मोत्पत्तिः यथा खलु तप्तमयः पिण्डं पयसि प्रक्षिप्ते सति, पयः परमाणून् स्वस्मिन् गृह्णाति तथा च शोषितेषु तेषु परमाणुषु केचन बहिर्गच्छन्ति बाष्परूपेण, यावच्च तत्पिण्डमुष्णं तिष्ठति तावदियं प्रक्रिया प्रचलति येन पयसि मन्थन - ञ्चापि भवति । तथैव यदायमात्मा रागद्वेषादिभिरुत्तप्तो भवति, तदा शरीरे हलन चलन क्रियोत्पद्यते । तद्यथा - क्रोधे चक्षूंषि रक्तवर्णानि जायन्ते, रुधिरगतिर्वर्धते वदनं शौष्क्यमुपगच्छति, नासिकापुटो च स्फुरतः, कामवासनायाः जागृतौ सत्यां शरीरे तु मन्थनविशेषः प्रारभते । यावच्च नायं कषायः शांतो भवति, तावन्मन्थनं भवत्येव, नावरुध्यतेऽर्थादात्मनो विचारानुसारमेव पुद्गलद्रव्येष्वपि परिणमनं जायते । तद्विचारोत्तेजकाश्च पुद्गलपरमाणवो वासनया ( कषायेण ) युक्ते सूक्ष्मकर्मशरीरे श्लिष्टाः भवन्ति । यदा च ते कर्मपुद्गलाः स्फुरन्ति तदा पुनः पुनस्तेषां भावानामुत्पत्तिः, ततश्च नूत्नकर्मपुद्गलानामास्रवः, ततश्च तत्परिपाकानुसारं नूत्नरागादिभावानामुत्पत्तिर्जायते । एवं रागादिभावकर्मपुद्गलाना सम्बन्धेनेदं जगच्चक्रं, यावन्न विवेकचारित्राभ्यां रागादीनां विनाशस्तावत् सततं प्रचलति । अतएव सम्यग्दृष्टेः पूर्वकर्मणामुपभोगः रागादिभावानामभावात्मकत्वान्निर्जराहेतुर्भवति । यदा हि तेनैवोपभोगेन मिथ्यादृष्टिनू लं. कर्मभिर्बध्यते । यतो हि सम्यग्दृष्टिस्तु पूर्वकर्मोदयोत्पद्यमानान् रागादिभावान् स्वज्ञानात् शमयति, न तेषु नृनामासक्ति करोति । अतस्तानि कर्माणि फलदानानन्तरं निर्जरामधिआत्मकर्मणोः सम्बन्धः १६१


Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190