Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 169
________________ ज्ञानादिप्रकटस्वभावस्वरूपकार्य:, उपाधिरहितः, भावद्रव्यकर्म नोकर्मरूपमलेविरहितः, केवलज्ञानाद्यनन्तगुणरूपः, परब्रह्म, शुद्धस्वरूप आत्मास्मिन् देहेऽवतिष्ठति । एवमनुपचरितास द्भूतव्यवहारनयापेक्षया स्वतोऽभिन्ने चेतने देहे यः स्थितः, शुद्धनयापेक्षया तु य स्वात्मस्वभावे एव स्थितः, स शुद्धः परमात्मैवास्ति, नान्यः कश्चिदिति" । तदेतन्न तु देहवशुचि, नापि मूर्तिको वास्त्यपितु पवित्रतमोऽमूर्तिकश्चैव, यतो हि देहस्तु तावदादियुक्तोऽन्तयुक्तश्च, आत्मात्वनाद्यनन्तः, लोकालोकप्रकाशकस्तथा च देहस्य जडत्वेऽपि एवम्भूते शरीरे यो देहमस्पृशन् सर्वशुचिमस्तिष्ठति स एव शुद्ध निश्चयनयेन परमात्मेत्युच्यते । मुक्तात्मनां स्वरूपम एव रागादिविकलरूपोपाधिना रहितस्य परमात्मरूपस्य भावनयोत्पन्नस्य सदानन्दस्वरूपैकलक्षणस्य सुखामृतरसास्वादतृप्ति रूपस्य निश्चयध्यानस्य परम्पराया कारणभूतेन शुभोपयोगलक्षणव्यवहारध्यानेन ध्येयभूता पञ्चपरमेष्ठिन. सञ्जायन्ते । ते च यथा ( १ ) साधव. ( Saints) । (२) उपाध्याया ( Preceptors) । (३) आचार्या (Heads of the Order of Saints ) । ( ४ ) सिद्धा: ( Perfect or Liberated Souls ) । (५) अर्हन्तश्चेति ( Worshipfull Lords ) 1 साधुस्वरूपम् (Saints ) तत्र ये खल्वात्मानः सर्वथा वीतरागसम्यग्दर्शनज्ञानाभ्या परिपूर्णा. मोक्षमार्गस्थिता., रागद्वेषादिव्यापारविप्रमुक्ता, सदाशुद्धचारित्राः, एतल्लक्षणाः साधु ""परमेष्ठिनो भवन्ति । अथ च दर्शन- ज्ञान चारित्रतपसामुद्योतन रूपञ्चतुविधमुद्योग निर्वहण - साधन निस्तरणञ्चेति विद्वद्भिराराधनमित्युच्यते । तदिद दर्शनज्ञानादिचतुष्प्रकारकमाराधनमेव बहिरङ्गमोक्षकारण भवति, यतो तस्येव बलेनात्मनि सम्यग्दर्शनज्ञानचारित्राणि तपश्च सञ्जायन्ते । तथा चात्मन्येतेषामेव स्थितत्वात् 'आत्मैव मे शरणम्' इत्याराधनाबलाद्द्बाह्याभ्यन्तरमोक्षमार्गेण ये वीतरागचारित्राविनाभूत स्वशुद्धात्मान भावयन्तिसाधयन्ति त एव 'साधुपरमेष्ठिन""" इत्युच्यन्ते । २४४ जनदर्शन आत्म-द्रव्यविवेचनम्

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190