Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 135
________________ तदा च यदि अनन्तानुबन्धि-क्रोध-मान-माया-लोभेषु कश्चिदुदयमधिगच्छति, तदा स मासादन इत्युच्यते। अत्र मिथ्यादर्शनोदयाभावेऽपि मतिश्रुतावधिज्ञानान्यज्ञानाख्यान्यस्य भवन्ति । कषायश्चानन्तमिथ्यादर्शनानुबन्धित्वादनन्तानुबन्धीत्युच्यते। एवमत्र परमानन्दरूपानन्तसुखफलप्रदो मोक्षबीजभूतः, औपशमिकसम्यक्त्वलाभो जघन्यतः एकसमयेन, उत्कृष्टत षडावलिकाभिरवगच्छति, स एव सास्वादनगुणस्थानकाल इत्युच्यते । ३. सम्यमिथ्यावृष्टिगुणस्थानम् (Mixed-Stage) सम्यक् च मिथ्या च दृष्टिर्यस्यासो सम्यमिथ्यादृष्टिस्तस्य गुणस्थानं सम्यङ्मिथ्यादृष्टिगुणस्थानम् । अत्र सम्यङ्-मिथ्यात्वोदयान्न तु केवलं मिथ्यादर्शनं, नापि केवल सम्यङ्दर्शनमपितूभयोमिश्रित एव भावो" जायते । अर्थात् क्षीणाक्षीणमदशक्तिकोद्रवोपभोगाद्यथेषत्कलुषितः मदपरिणामो जायते, तद्वदेव सम्यमिथ्यात्वप्रकृतेरुदयात्तत्त्वार्थश्रद्धानरूपोऽश्रद्धानरूपश्च मिश्रित एव परिणामो जायते । अर्द्धविशुद्धदर्शनमोहनीयपुञ्जोदयादर्धविशुद्ध तत्त्वश्रद्धानं भवति । यतो ह्यस्य त्रीण्यपि ज्ञानान्यज्ञानमिथितानि भवन्ति । तदेतत् अन्तर्मुहूर्तप्रमाण सम्यमिथ्याष्टिगुणस्थानमुच्यते । अन्तर्मुहू दूध्वं तु नियमत. सम्यक्त्वं, मिथ्यात्व वैवाधिगच्छतीति । ४ असंयतसम्यग्दृष्टिगुणस्थानम, (Vowless-Right-Belief-Stage) हिसानतादिभ्य. पापेभ्यो विरमणं विरतिस्तदेव विरतम्, तत्पुन सावद्ययोगप्रत्याख्यानम्, तदेतन्न तु जानाति, नाभ्युपगच्छति, नापि तत्पालनाय यतते, इत्येषा त्रयाणा पदानामष्टौ भेदाः जायन्ते । तत्र प्रथमेषु चतुर्विधेषु भेदेषु अज्ञानित्वान्मिथ्यादृष्टित्वम्, शेषेषु त्रिषु च ज्ञानित्वात्सम्यग्दृष्टित्वमुपपद्यते। सप्तभेदेषु नास्य विरतत्वमस्तीति-अविरतः, चरमे तु भेदे विरतिरस्त्येव । अतः विरमति स्म, सावद्ययोगेभ्यो निवर्तते स्मेति विरत', न विरतोऽविरतः, स चासो सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः । स च क्षायिकसम्यग्दृष्टिरौपशमिकसम्यग्दृष्टिायोपशमिकसम्यग्दृष्टि सावद्ययोगविरति सिद्धिरूपसौधाध्यारोहणनि श्रेणिकल्पां जानन्नप्यप्रत्याख्यानकषायविघ्नितत्वात् नाभ्युपगन्तु शक्नोति, नापि तत्परिपालनाय यतते, इत्यसावविरतसम्यग्दृष्टिस्तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । जनवर्शन आत्म-द्रव्यविवेचनम्

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190