Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 149
________________ प्राधान्यादुत्पद्यमानं प्रमाणं परोक्षम् । यथा खलु गतिशक्तियुक्तत्वेऽपि स्वयं गन्तुमशक्तस्य पुरुषस्य गमनं दण्डाद्यवलम्बनप्रधानं भवति, तथैव मतिश्रुतावरणयोः क्षयोपशमे सत्यपि स्वयमेवार्थान्नुपलब्धुमसमर्थस्याज्ञ-स्वभावस्यात्मन उपात्तानुपात्तादीनां प्राधान्याद्यज्ज्ञानं पराधीनं मतिश्रुतात्मकं जायते, तदुभयविधमेव परोक्षमित्युच्यतेऽर्थात् इदं मतिश्रुतज्ञानं परायत्तम्, नत्वज्ञानम्, नाप्यनवबोधो वेति । स्मृतिसंज्ञादीनां मतित्वम् स्मृति-संज्ञा - चिन्ता अभिनिबोधादीनां सर्वेषां मतिज्ञानावरणक्षयोपशमनिमितादेवार्थस्योपलब्धी वृत्तेरनर्थान्तरत्वान्मतित्वमेवोपपद्यते, न तु मतिभिन्नत्वम् । यद्यप्यत्र शब्दभेदादेतेषामस्ति परस्पर भेदः, परमुत्पादकहेतुसादृश्यात्वभेद एवास्ति, यश्चैषां शब्दकृतो भेदस्तत्तु तत्तत्पर्यायापेक्षयास्ति । यथा खलूष्णत्वमग्नेरभिन्नत्वात्तल्लक्षणम्, तथैव स्मृत्यादीनामभिनिबोधसामान्यात्मकस्य मतिज्ञानस्य लक्षकत्वान्मतिज्ञानलक्षणत्वम् । अर्थात् मति स्मृतिचिन्तादिशब्दैर्यदुच्यतेऽवबुध्यते वा तत्सर्वं मतिज्ञानमेवेति । मतिज्ञानस्य भेदा: तदेतन्मतिज्ञानमिन्द्रियैर्मनसा च तन्निमित्तकमुत्पद्यतेऽर्थात् इन्द्रियाणां मनसश्च साहाय्यादेव मतिज्ञानमुत्पद्यते, अत्र कर्ममलीमसस्य इन्द्रस्य - आत्मन. स्वयमर्थान् गृहीतुमसमर्थस्यार्थोपलम्भने यल्लिङ्गं तदेवेन्द्रियमिति भट्टाकलङ्कविवेचितम् । अनुदरा कन्यावच्च अन्त करणरूपं मन एवानिन्द्रियम् । तयोर्द्धयोरपि युगपत् साहाय्यात् मतिज्ञानमुत्पद्यते । न मनसोऽभावेऽपीदमुत्पादयितु शक्यम्, यतो हि मनसोऽनवधाने सति नेन्द्रियाण्यभिमुखं स्थित पदार्थ गृहीतुं समर्थानि भवन्तीति । एतच्चेन्द्रियैर्मनसा च साहाय्येनोत्पद्यमानं ज्ञानं येन क्रमेणोत्पद्यते, तस्य क्रमस्य चत्वारो विभागाः सन्ति, तदपेक्षया मतिज्ञानस्यापि चत्वारो भेदाः" सञ्जायन्ते, ते च चत्वारः क्रमाः यथा- ( १ ) अवग्रह: ( Perception ) । (२) ईहा (Conception ) । (३) अवाय (Judgment ) । (४) धारणा चेति (Retention ) । सम्यग्ज्ञानम् २१७

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190