Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 160
________________ भावासमितिः (Care in Speaking) अथ च हित-मित-असंदिग्ध-अनवद्यार्थप्रतिपादननियतानां वचनानां व्यवहारो भाषासमितिरिति । अर्थात् मोक्षसाधने प्रवृत्तिरूपाः, आत्मनः कल्याणलक्ष्याभावरूपाः, निष्प्रयोजनाः, अपरिमितरूपाः, अनिश्चायकाः, अतएव सन्देहीत्पादका संशयपूर्वकाः पापरूपाः पापकार्यसमर्थकाः वा ये शब्दास्ते न समितिस्वरूपाः, अतएवैतान् शब्दान् परित्यज्योपयुक्तान् चत्वारः शब्दानुद्दिश्याप्रमत्तभाषाया व्यवहार एव भाषासमितिरित्युच्यते"। goarafafa: (Care in Eating) आगमे ये उत्पादनादिका दोषा वर्णितास्तेषा वर्जनपूर्वकं धर्मसाधनानां धारणम्, अन्नपानप्रवृत्तिश्चषणासमितिः । अर्थात् भक्ष्य-पेय-रजोहरण-पात्र-चीवरादीनां धारणे उद्गमोत्पादनषणादिदोषाना परित्याग एषणासमितिरिति । aratararaquarafa: (Care in Lifting & Laying) धर्मविरोधिना परानुपरोधीनां ज्ञानसंयमयोश्च साधकानामुपकरणानां निरीक्ष्य, प्रमृज्य प्रवर्तनमादाननिक्षेपणसमितिः । उत्सर्गसमितिः (Care in Excreting) यत्र स्थावरजङ्गमादिजीवानां विराधना न स्यात्, तव मलमूत्रादिविसर्जनम्, शरीरस्य स्थापनञ्चोत्सर्गसमिति", अर्थात् यत्र पृथिवीकायिकादय स्थावराः पञ्चविधा एकेन्द्रियादिजीवा' असाश्च न स्युस्तत्र शुद्धे, स्थण्डिले, प्रामुकस्थाने निपुण निरीक्ष्योपमृज्य च मलमूत्रयोः परित्याग एबोत्सर्गसमितिरिति । चारित्रमोहाभावः एव सम्यक्चारित्रस्यावाप्तौ यादृशं साहाय्यं गुप्तिसमित्योरस्ति, तदधिक चारित्रमोहाभावस्य, यतो ह्यस्याभावे तु नेद सम्यक्चारित्र कथमपि युज्यते । अतस्तदवाप्तौ चारित्रमोहाभावोऽत्यावश्यकः । तत्र चारित्रस्य मोहकानां सप्तपरीषहाणामभाव एव चारित्रमोहाभावपदेन गृह यते । यतो हि, चारित्रमोहस्योदये सत्येव इमाः सप्तविधाः परीषहा उत्पद्यन्ते, यद्वशान्नात्मा सम्यक्चारित्रमधिगन्तु प्रभवति । एषामभावे सत्येव तेनात्मा युज्यते । ताश्च सप्तविधाश्चारित्रमोहपरीषहा इमाः-- जनदर्शन मात्म-न्यपिचमन २३४

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190