________________
भावासमितिः (Care in Speaking) अथ च हित-मित-असंदिग्ध-अनवद्यार्थप्रतिपादननियतानां वचनानां व्यवहारो भाषासमितिरिति । अर्थात् मोक्षसाधने प्रवृत्तिरूपाः, आत्मनः कल्याणलक्ष्याभावरूपाः, निष्प्रयोजनाः, अपरिमितरूपाः, अनिश्चायकाः, अतएव सन्देहीत्पादका संशयपूर्वकाः पापरूपाः पापकार्यसमर्थकाः वा ये शब्दास्ते न समितिस्वरूपाः, अतएवैतान् शब्दान् परित्यज्योपयुक्तान् चत्वारः शब्दानुद्दिश्याप्रमत्तभाषाया व्यवहार एव भाषासमितिरित्युच्यते"। goarafafa: (Care in Eating) आगमे ये उत्पादनादिका दोषा वर्णितास्तेषा वर्जनपूर्वकं धर्मसाधनानां धारणम्, अन्नपानप्रवृत्तिश्चषणासमितिः । अर्थात् भक्ष्य-पेय-रजोहरण-पात्र-चीवरादीनां धारणे उद्गमोत्पादनषणादिदोषाना परित्याग एषणासमितिरिति । aratararaquarafa: (Care in Lifting & Laying) धर्मविरोधिना परानुपरोधीनां ज्ञानसंयमयोश्च साधकानामुपकरणानां निरीक्ष्य, प्रमृज्य प्रवर्तनमादाननिक्षेपणसमितिः । उत्सर्गसमितिः (Care in Excreting) यत्र स्थावरजङ्गमादिजीवानां विराधना न स्यात्, तव मलमूत्रादिविसर्जनम्, शरीरस्य स्थापनञ्चोत्सर्गसमिति", अर्थात् यत्र पृथिवीकायिकादय स्थावराः पञ्चविधा एकेन्द्रियादिजीवा' असाश्च न स्युस्तत्र शुद्धे, स्थण्डिले, प्रामुकस्थाने निपुण निरीक्ष्योपमृज्य च मलमूत्रयोः परित्याग एबोत्सर्गसमितिरिति । चारित्रमोहाभावः एव सम्यक्चारित्रस्यावाप्तौ यादृशं साहाय्यं गुप्तिसमित्योरस्ति, तदधिक चारित्रमोहाभावस्य, यतो ह्यस्याभावे तु नेद सम्यक्चारित्र कथमपि युज्यते । अतस्तदवाप्तौ चारित्रमोहाभावोऽत्यावश्यकः । तत्र चारित्रस्य मोहकानां सप्तपरीषहाणामभाव एव चारित्रमोहाभावपदेन गृह यते । यतो हि, चारित्रमोहस्योदये सत्येव इमाः सप्तविधाः परीषहा उत्पद्यन्ते, यद्वशान्नात्मा सम्यक्चारित्रमधिगन्तु प्रभवति । एषामभावे सत्येव तेनात्मा युज्यते । ताश्च सप्तविधाश्चारित्रमोहपरीषहा इमाः--
जनदर्शन मात्म-न्यपिचमन
२३४