________________
वस्त्वन्तराराधननिक्षेपः, शयनासनादिशारीरिकक्रियाश्चेत्येतेषां निमित्त यत्कर्म, तस्यानास्रवणमेव 'कायगुप्तिः'। संवररहितस्य जीवस्यासत्प्रलापाप्रियभाषणादिभिर्यानि वाचिकव्यापारनिमित्तानि कर्माणि आस्रवन्ति, वाग्योगनिग्रहिणि जीवे यत्तेषामभावस्तदेव वचनगुप्तिरिति । यच्च रागद्वेषादिभिरभिभूतप्राणिनोऽतीतानागतविषयाभिलाषादिभिः मनोव्यापारनिमित्तकानि कर्माण्यागच्छन्ति, तेषामभाव एव मनोगुप्तिरित्युच्यते । एतत्त्रिविधानामपि गुप्तीनां योगनिग्रहात्मकत्वाच्चारित्रसाहाय्यत्वमस्ति । किन्त्वत्रायं योगनिग्रहो यद्यविधि-अज्ञान-अस्वीकार-मिथ्यादर्शनादिपूर्वक: स्यात्तदा नास्य गुप्तित्वमुपपद्यतेऽतएव सम्यग्योगनिग्रहस्यैव गुप्तित्वमत्र स्वीकृतम् । अन्यथा आत्मघातादीनां बालतपश्चरणसंलग्नाना मिथ्यादृष्टीनां मौनधारणादीनां प्रक्रियाणामपि गुप्तित्वं स्यात् ।
समितयः (Carefull-ness) एताः गुप्तयः संवरस्य प्रधानसाधनभूताः, अतएव मुमुक्षभिः सम्यक्परिपालनीया । किन्तु ये खल्वेतासां परिपालनेऽक्षमास्तेषां कृतेऽथ च 'शरीरस्य न यावत् सम्पूर्णरूपेण परित्यागस्तावत्प्राणसंधारणार्थ (यात्रार्थ) यत्किञ्चिदशन-पान-आदान-निक्षेपण-उत्सर्गादिकमावश्यकम्, तेन सवरः खल्वशक्यः' इत्याशङ्ख्यमानाना कृते एव सम्यक्प्रवृत्तीनां समितीनामुपदेशो विद्यते । इमाश्च समितयः पञ्चविधास्तथाहि"
(१) ईर्यासमितिः (Care in Walking)। (२) भाषासमितिः (Care in Speaking)। (३) एषणासमितिः (Care in Eating )। (४) आदाननिक्षेपणसमिति (Care in Lifting & Laying) । (५) उत्सर्गसमितिश्चेति (Care in Excreting)।
fafafafa: (Care in Walking) तत्र जीबस्थानादिविधिविज्ञस्य धर्मार्थप्रयत्नशीलस्य सूर्योदये सति चक्षुरिन्द्रियविषयगृहीतत्वे मनुष्यादिचरणपातोपहृतावश्यायमार्गे सावधानचित्तस्य सकुचितावयवस्य शनैश्शनय॑स्तपादस्य शरीरप्रमाणभूमिमग्रे निरीक्षणावहितदृष्टे: यदप्रमत्तं गमन तदीर्यासमिति"पदेनोच्यते । सम्यक्धारित्रम्
२३३