________________
विनाशयोर्देशकालद्रव्यादिस्वभावज्ञस्याप्रमादिनः, महावीर्यस्योत्कृष्टनिर्जरस्यातिदुष्करक्रियाणामनुष्ठातुः त्रिकालसंध्यां वर्जयित्वा द्विकोशगामिन एवोत्पद्यते, नान्यप्यतद्विरहितस्य कस्यचिदपि सजायते। सूक्ष्मसम्परायम् (All but Entire Freedom from Passion) सूक्ष्मसम्परायचारित्र दशमगुणस्थानीयानामेवोत्पद्यते, यत्र खलु लोभसज्वलनाख्य. सम्पराय. सोक्ष्म्यमुपगच्छति । तच्चेद स्थूलसूक्ष्मप्राणिनां वध-परिहारे पूर्णतयाप्रमत्तस्य, निर्वाधोत्साहशीलस्याखण्डचारित्रस्य, सम्यग्दर्शनज्ञानमहापवन. सन्धोक्षिताभि. प्रशस्ताध्यवसायाग्निज्वालाभिर्भस्मितकर्मेन्धनस्य, ध्यानविशेषतः कषायविषाकुरविििखतस्य, सूक्ष्ममोहनीयकर्मबीजान्नपि अपचयाभिमुखमालीनस्य, परमसूक्ष्मलोभकषाययुक्तस्य सूक्ष्मसम्परायाख्यं चारित्रमुत्पद्यते । यथाख्यातम् (Ideal & Passion-less Conduct) यथात्मस्वभावोऽवस्थितस्तथैवाख्यातत्त्वात् 'यथाख्यातमिति' । सर्वविधस्यापि चारित्रमोहस्योपशमात् क्षयाद्वात्मस्वभावस्थितिरूपं परमोपेक्षापरिणतं यथाख्यातचारित्रम् । अर्थात्पूर्वचारित्राणामनुष्ठातृभिरपि साधुभिर्न मोहोपशमाभावे क्षयाभावे वा प्राप्तु शक्यते तदथाख्यातमिति। अत्राथशब्दस्यानन्तर्यात्मिकत्वाच्चारित्रमोहस्योपशमानन्तर क्षयानन्तरं वेत्येव" गृह्यते । एवमिद यथाख्यात (अथाख्यात वा) चारित्र मोहनीयाख्यस्याशुभकर्मणः उपशमे क्षये वा सत्येव यस्मिन् छद्मस्थे जिने वा सम्पद्यते स 'यथाख्यातचारित्रम्" इत्युच्यते। गुप्तयः (Preventions) सम्यक्चारित्रस्यैतेषा भेदाना विश्लेषणेनेद ज्ञायते, यदस्यावाप्तौ ये प्रमुखाः हेतव. सन्ति ते गुप्तय , समितयः, चारित्रमोहाभावश्चेत्येव सन्ति । अथदिषा त्रयाणां गुप्त्यादीनामाचरणेनैव सम्यक्चारित्र परिपुष्ट भवति । तत्र सत्कार लोकप्रसिद्धिमलौकिकं पारलौकिकञ्च सुखमनपेक्ष्य क्रियमाणो योगनिग्रहो गुप्तिरित्युच्यते । तंत्र कायवाङ्मनसा परिस्पन्दो योगः, निग्रहश्च"-प्राकाम्यस्य यथेष्टचारित्रस्याभाव । योगस्य च यो निग्रहः स एव गुप्तिरिति, सा च त्रिविधा भवति काय-वाङ्-मनो (Body, Speech, Mind) भेदेन । तत्र निगृहीतकायप्रचारस्याप्रमत्तस्यानवेक्षिताप्रमार्जितभूमिप्रदेशविचरणम्,
जनदर्शन आत्म-अध्यविवेचनम्
२३२