________________
(२) नाग्न्यपरोषहा (Nakedness)। (२) अरतिपरीषहा (Dissatisfaction, Languor)। (३) स्त्रीपरीषहा (Women Suffering)। (४) निषद्यापरीषहा (Sitting)। (५) आक्रोशपरीषहा (Abuse)। (६) याचनापरीषहा (Begging)। (७) सत्कारपुरस्कारपरीषहश्चेति (Respect on Disrespect)।
एषामुदये सति सम्यग्दर्शनज्ञानयुतस्यापि जीवस्याचरणं न सम्यक्त्वं लभतेऽतस्तदवाप्त्यै एषां सप्तचारित्रपरीषहाणां वशिनः साधुजनाः न मोक्षमार्गेऽने सरितु प्रभवन्ति। अतएवैताः-मोक्षमार्गबाधिकाः चारित्रपरीषहाः विजित्येव मोक्षमार्गे प्रगतिविधीयते साधुभिः । ताश्चेक्स्वरूपाः-यथाजातरूपस्य नाग्न्यस्य मूर्तिमच्चारित्रस्वरूपत्वमस्ति । तदिदमविकारि संस्कारशून्यं स्वाभाविकञ्चास्ति । तस्यतस्य नाग्न्यस्य धारणे बाधिकाः विपत्तय एव नाग्न्यपरीषहपदवाच्याः, आसां बाधकविपत्तीनामेव जयो नाग्न्यपरीषहजयः । अनिष्टपदार्थसंयोगेऽप्रीतिभावोऽरतिपरीषहा । तासां धैर्येण विनाशनमेवारतिपरीषहजयः। एकान्तोद्यानभवनादिषु यौवन-मदरूपमद-विभ्रम-उन्माद-मद्यपानादिसाधनैर्जायमान विघ्न स्त्रीपरीषहा, तत्सत्यपि तत्स्पर्शनदर्शनादीच्छारहितो भावः स्त्रीपरीषहजयः। ध्याने सामयिके वैकासनस्थिते च तदासनस्थितौ काठिन्यानुभवनं निषद्यापरीषहा, तस्याः जयो निषधापरीषहजयः । एवञ्च 'वञ्चकोऽयं' 'साधुवेषाच्छन्नश्चौरोऽयं' 'पापी' 'दुष्टश्चायं' इत्यद्याज्ञानाक्षेपितमिथ्यावचनानि एवाक्रोशपरीषहा, तस्याः सहनमेव आक्रोशपरीषहजयः । संक्लेशे विपत्तिकाले च तस्माद्वि भेत्य तद्रीकरणार्थं यस्य कस्यचिद्वस्तुनो याञ्चाभावो याचनापरीषहा, तस्याः जयः, याचनापरीषहजयः इति । अथ च विभिन्नयोग्यतायुक्तस्यापि तदनुरूपं मानपुरस्कारादिप्राप्त्यभावो सत्कारपुरस्कारपरीषहा, तस्याः जयः सत्कारपुरस्कारजय इति ।
एवमेतत् सप्तविधपरीषहजययुक्तेन मुमुक्षुणा बुभुक्षा-तृषा-शैत्य-औष्ण्य-दशकमशकादीनाम्, चलता, गच्छता, स्वपिता वा कण्टकादीनाम्, वध-आक्रोशमलोत्सर्गादीनाञ्च बाधाना शान्त्या प्रसहनम्, नग्नत्वेऽपि सति स्यादिना
२३५