________________
चर्यघातकानां साधनानां दर्शने सजाते प्रकृतिस्थत्वम्, सुचिरं तपस्तप्तेऽपि ऋद्धि-सिद्ध्यनवाप्ती तपः प्रत्यनादराभावः, ऋद्धिप्राप्तौ च तद्गर्वाभावः, यस्य कस्यचिदपि सत्कारपुरस्कारयोरन्यतरस्य प्राप्ताप्राप्ती हर्षापमाने वा खेदाननुभूतिः, भिक्षिते भुङ क्तेऽपि वात्मन्यदन्यमित्यादिपरीषहजयश्चारित्रे हढा निष्ठा सजायते, तस्मात् चारित्रमपि परिपुष्टं भवति। एवं सप्तविधपरीषहाणां चारित्रमोहोत्पादिकानां विजयात् चारित्रमोहस्याप्यभावः सम्पद्यते, तदभावे च चारित्रस्य सम्यक्त्वमपि सुदृढं भवतीति । कश्चिदाचार्य स्त्विदं सम्यक्चारित्र संयमपदेनाप्यभिहितम्, तदेतत् संयमः खलु धर्मान्तर्भूत इन्द्रियविजय-प्राणिरक्षारूपश्चास्ति । कैश्चिच्च व्रतधारणम्, समितिपालनम्, कषायनिग्रहः, दण्डपरित्यागः, इन्द्रियजयश्चेति पञ्चविधः। स्वीकृत । पर तत्त्वार्थवात्तिककृतायं संयमः प्रामुख्येन उपेक्षासंयमः, अपहृतसयमश्चेति द्विविधोऽभिहित. । तत्र देशकालविधिज्ञस्य स्वभावत एव शरीराद्विरक्तस्य गुप्तित्रयधारकस्य रागद्वेषरूपायाश्चित्तवृत्तेरभाव उपेक्षासंयमः । अपहृतसयमश्चोत्कृष्ट-मध्यम-जघन्यभेदेन त्रिविधः । तत्र प्रासुकवसत्याहारमात्रबाह यसाधनात्मकत्वस्य स्वाधीनज्ञानचारित्रकरणस्य बाह यजन्तूपनिपाते सत्यात्ममन संरक्षणपूर्वक पालनमुत्कृष्टापहृतसयमः, मृदूपकरणादिभिर्जन्तूनां प्रमार्जकस्य मध्यमापहृतसयम , अन्योपकरणाद्यभिलाषिणश्च जघन्यापहृतसंयमो भवति ।
अतस्यापहृतसंयमस्य प्रतिपादनार्थमष्टशद्धयो भाव-कायशुद्ध्यादय उपदिष्टा'। यासा सम्यक्परिपालनेनापहृतसयमस्य पुष्टिर्भवति, तस्माच्च सम्यक्चारित्र परिपुष्ट भवति । एव सम्यग्दर्शनज्ञानयुतस्य गुप्ति-समितिचारित्र-सयमादीना सम्यक्परिपालनेन सम्यगाचरणस्य सद्भावात्सम्यक्चारित्रमुत्पद्यते, तस्मादेव जीवो मोक्षत्वमधिगच्छति, यतो हि, सम्यक्चारित्राभावे न कथमपि सम्यग्दर्शनज्ञानसम्पन्नोऽप्यात्मा तदधिगन्तुप्रभवति इति ।
कृत्स्नकर्मक्षयो मोक्षः कर्मक्षयस्यावश्यकत्वम् जगत्यस्मिन् सासारिकस्य जीवस्य संसरणात्मकत्वात् जन्ममरणादीन्नुपलभतः, पूर्वजन्मोपाजिताना कर्मणां प्रभावादधिगतेऽस्मिन्नपि जन्मनि कर्मणामुपार्जनात्पुनर्जन्म, तत्रापि च कर्मणां संचयात्मकत्वात्पुनरपि जन्म गृह णाति । २३६
जनदर्शन आत्म-व्यविवेचनम्