________________
तथा च तत्र तसज्जन्मोपार्जितायुष्कर्मणः समाप्तौ मरणम्, ततश्च पुनर्जन्मन्यपि तत्कर्मसम्बद्धं मरणमुपलभते। एवमनयोर्जन्ममरणयोर्मध्यवतिनं यावत्कालं जीवो जगति तिष्ठति, तावत्कालमहर्निशमेव नित्य-नैमित्तिकआवश्यकाद्याचरणीयः कर्मभिस्तत्तत्कर्मपुद्गलान् प्रति, इच्छा-राग-द्वेष-मोहादिभिर्युक्तः श्लिष्यते। ते च कर्मपुद्गलाः जैनदार्शनिकः प्रमुखेष्वष्टसु भागेषु विभक्ताः । तेषां मध्ये खलु चतुर्विधास्तु प्रत्यक्षत एवात्मना श्लिष्यन्ति, अन्ये चतुर्विधास्त्वप्रत्यक्षतः । एषां संश्लेषणेनैवात्मा कर्मपुद्गलसंश्लिष्टोऽयमेव च बन्ध इत्युच्यते। अस्य बन्धस्य सद्भावे सति, पुनः पुनरुत्पद्यमाने च न कथमप्यात्मा संसारात् निर्मुक्तो भवितु शक्नोति, नाप्येषु केषाञ्चन कर्मणां विनाशे, केषाञ्चन चाविनाशे बास्मात्संसाराद्विमुच्यतेऽपितु सर्वेषामेव कर्मणा यदा विनाश आत्मनि सजायते, तदेवातो मुक्तिः प्राप्यते । अत एभिः कर्मभिविमुक्त्यर्थमेषां सर्वेषामपि कर्मण क्षयः-विनाश आवश्यक: । सम्यक्चारित्रस्य मोक्षहेतुत्वम् यद्यपि बहुभिर्दार्शनिकैः स्व-स्व-पदार्थाना सम्यग्ज्ञानादेव मोक्षलाभोऽभिहितः, तत्र कर्मणामभावस्य कृते न चारित्रस्य प्राधान्यमावश्यकत्वं वा स्वीकृतम्, किन्तु अत्र विचारे कृते सति ज्ञायते, यद्वस्तुतस्तु तत्तत्पदार्थाना ज्ञाने सत्यपि, तेषु विरागो यदि न स्यात्, तत्कथ तेभ्यः पदार्थेभ्यो मनो-वाक्कायादीनां त्रिविधयोगानां विरक्तिर्भाविनी, विरक्त्यभावे च तत्र स्नेहादय एव प्रवर्धन्ते, तेषाञ्च सद्भावात्कथमपि पदार्थज्ञानमात्र मोक्षकारणं मोक्षस्वरूपं वा न भवितुमर्हति । पुण्यकर्मणामपि हेयत्वम् अतएव ये खलु जगति स्नेह-राग-द्वेषप्रभृतिभिर्दारैरात्मनि स्नेहादिभावानामुत्पादकाः कर्मशत्रवो विद्यन्ते, तेषां सर्वथा विनाश एव मुक्तवावश्यकः । यद्यपि कर्माण्यपि शुभाशुभरूपाणि द्विविधानि सन्ति, तत्र केवलमशुभान्येव हेयानि, शुभानि चोपादेयानीति कश्चिदभिहितम्, परम दमवधेयं यज्जनदार्शनिस्तावद्यथा खल्वशुभानि कर्माणि जगति जीवं वध्वा स्थातु लौहनिगडवदभिहितानि, तथैव शुभान्यपि कर्माण्यत्र स्थातु स्वर्णनिगडवत् स्वीकृतानि, यतो हि, उभयविधरपि कर्मभिर्बन्धः जगद्धेतुभूतः सदृश एव जायतेऽतो यथा अशुभकर्मणां निवृत्तिः जगदुच्छेदहेतो मोक्षे वा सहायिका तथैव शुभानामपि । कृत्स्नकर्मण्यो मोशः
२३७