________________
मात-उद्योत स्वाथर-सूक्ष्म-साधारणानां षोडशप्रकृतीनामनिवृत्तिबादरसम्पराये समाधिना युगपत् समूलो विनाशो भवति ।। अतोऽनन्तरं च प्रत्याख्यानाप्रत्याख्यान-क्रोधमानमायालोभाद्यष्टकर्मकषायाणां विनाशो भवति। तत्रैव च स्त्रीनपुसकवेदयोः षड्नोकषायाणाञ्च क्रमशः क्षयो जायते। ततश्च पुवेदसञ्ज्वलनक्रोधमानमायादीनां क्रमशः क्षयो भवति । लोभसवलनस्तु सूक्ष्मसम्परायान्ते एव विनश्यते । क्षीणकषायवीतरागछद्मस्थस्योपान्ते काले निद्राप्रचले क्षयं गच्छतः । पञ्चज्ञानावरणानां, चतुण्णां दर्शनावरणानां, पञ्चानामन्तरायाणाञ्च द्वादशतमगुणस्थानस्यान्ते विनाशो भवति । अब चैकः कश्चन वेदनीयः, देवगत्यौदारिक-बैक्रियिकाहारक-तैजस-कार्मणसरीरषड्संस्थानानि, औदारिकर्व क्रियिकाहारकाङ्गोपाङ्गाः, षड्संहनानि, पञ्चप्रशस्तवर्णाः, पञ्चाप्रशस्तबर्णाः, द्वे गन्धे, दश प्रशस्ताप्रशस्तरसाः, अष्टो स्पर्शाः, देवगतिप्रायोग्यानुपूागुरुलघूपघातपरघातोच्छवासप्रशस्तविहायोगति-अपर्याप्तकप्रत्येकशरीरस्थिरास्थिरशुभाशुभदुर्भगसुस्वर-दुःस्वरानादेयायशस्कीति-निर्माणनीचगोत्रसंज्ञाकाश्चेत्येतासा द्विसप्ततिप्रकृतीनामयोगकेवलिन उपान्त्ये काले विनाशो भवति । एको वेदनीयो मनुध्यायुर्गतिपञ्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्व्यत्रसबादरपर्याप्तकसुभगादेययशस्कीर्तितीर्थकरोच्चैर्गोत्राख्यानां त्रयोदशप्रकृतीनामयोगकेवलिनश्चरमे समये व्युच्छेदो भवति । कंवल्यम् (Perfect Knowledge) मिथ्यादर्शनादयो ये बन्धहेतवस्तेषां तत्तदावरणीयकर्मणां क्षये सत्यभावस्ततश्च सम्यग्दर्शनादीनामुत्पत्तिर्जायते । अत्र तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनं निसर्गतोऽधिगमतश्च (परोपदेशतः) उत्पद्यते । एवं तत्सद्भावे सति सम्यग्व्यपदेशितस्य संवृतस्य निर्जरणकारणानामत्यन्तक्षयो जायते । एतस्मात्क्षयादेव सर्वद्रव्यपर्यायविषयके केवलज्ञानदर्शने प्रकटयतः याभ्यामात्मा शुद्धः, बुद्धः, सर्वज्ञः, सर्वदर्शी, जिन., केवलीति वोच्यते । ततश्चायमघातिकर्मावशिष्टं आयुष्कर्मसंस्काराज्जगति विहरन् तिष्ठति अर्यात् संवरकारणानामभावे सति बन्धकारणानामभावः, ततश्च नूनकर्मणामागमनाभावोऽतोऽनन्तरं च निर्जरकारणनिमिसात्पूर्वोपार्जितकर्मणामेकदेशक्षयोऽपि प्रारभते । एवं नून-नूनयो मोगः
२३९