________________
कर्मणां संवरणात्, सचित्तानाञ्च निर्जरणात् केवलज्ञान सञ्जायते । तदेवोक्तमुमास्वातिना -
'मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् " ।
मोहनीयस्य ज्ञानावरण-दर्शनावरणयोरन्तरायस्य च क्षये सति केवलज्ञानं केवलदर्शनञ्चोत्पद्येते । अर्थात् चतुर्णा घातिकर्मणां क्षयादेव केवलमुत्पद्यतेऽत्र मोहनीयक्षयानन्तरमेवान्येषां त्रयाणां क्षयो भवति । मोहनीयस्य क्षयान्ते दर्शनज्ञानावरणादीनाञ्च क्षयात्प्रागन्तर्मुहूर्त्तकालं छद्मस्थवीतरागत्वं भवति ।
ter: (Liberation)
मोक्षस्तावत्कृत्स्नकर्मक्षयलक्षणस्तत्राष्टी
कर्माणि ( चत्वारि घातिकर्माणि, चत्वारि वाघातिकर्माणि) क्षयमुपगच्छन्ति, तत्र चतुर्णां घातिकर्मणां पूर्वमेव कँवल्यावस्थायां क्षयो जायते । अतोऽवशिष्टानां चतुर्णामघातिकर्मणा यस्मिन् काले सर्वथा क्षयो भवति, तदैव मोक्षप्रसिद्धिर्भवति । तदेव चौदारिकशरीरवियोगोऽपि जायते येनान्तेऽस्य जन्मनोऽभावो भवति, पुनश्च कारणाभावादुत्तरजन्मप्रादुर्भावोऽप्यसम्भवः स्यात् इयमेवावस्था सर्वेषामपि कर्मणां क्षयरूपा । अयमेव मोक्ष, एताशे कर्मविप्रमोक्षे मोक्षे सद्भावे सति जन्ममरणादिविरहितावस्था भवति । एवं समस्तानामपि कर्मणां सर्वथाभावादेव यावस्थोत्पद्यते सेव 'मोक्ष' इत्युच्यते ।
मुक्तात्मनां स्वरूपम्
श्रात्मगुणसाक्षात्कारः
'चैतन्यं' जीवस्य सामान्यं लक्षणम्" । जगति सर्वविधेष्वपि जीवेषु चैतन्य - मुपलभते । यतो हि प्रत्येकमपि जीवो निसर्गादेवानन्तज्ञानदर्शनादिसामर्थ्य गुणैः सम्पन्नो भवति, परं जीवेष्वावरणीय कर्मभिः तेषां स्वाभाविकानां गुणानामुदयो न सम्भवति । आत्मीयानामेव शुभाशुभकर्मणा प्रभावाज्जीवस्य स्वाभाविक्रेषु गुणेष्वेकमावरणं सञ्जायते किन्तु अशुभकार्याणां परित्यागात्, शुभकार्याणामेवानुष्ठानाच्चास्यावरणस्य तिरोभावे सति एतेषां गुणानां साक्षात्कारो जीवे सञ्जायते ।
आत्मापरनामो जीवः खलु स्वतन्त्र एकः पदार्थस्तस्योपयोगलक्षणात्मकत्वात् " चैतन्यमसाधारणो गुणः, येनायं सर्वेभ्योऽपि द्रव्येभ्यः स्वीयं पृथगस्तित्वमुपलभते । चैतन्यस्यास्य बाह्याभ्यन्तरकारणवशात् ज्ञानदर्शनरूपो द्विविधः जनदर्शन आत्म-द्रव्यविवेचन
२४०