________________
परिणामो भवति । यदा चेदं चैतन्यं स्वतोऽभिन्नं चैतन्याकारमात्र तिष्ठति, तदा दर्शन मिति, यदा च स्वतो भिन्नं कञ्चन ज्ञयविशेषं विजानाति, तदा ज्ञानमित्युच्यते । यदा चायमुपयोगो द्विविधोऽपि केवलत्वमुपपद्यते, तदात्मनो मोक्ष: सञ्जायतेऽतोऽस्य मोक्षस्योपलब्धिस्तत्त्वतस्त्वात्मगुणानां साक्षात्काररूपैव भवति ।
मोक्षस्य पञ्चगतित्वम्
जगतः प्रत्येकस्मिन्नपि भागे जीवानां सत्तावलोक्यते, तत्र जीवः खलु शुभाशुभकर्मणां कर्त्ता, सुखदु:खानाञ्च भोक्ता, स्वस्य प्रकाशकश्चास्ति । अतो जीवस्य परस्परं विरुद्धे द्वे अवस्थे संसार-मोक्षरूपे स्तः । अत्र संसारो यदि जन्ममृत्योः प्रतीकभूतस्तन्मोक्षस्त्वेतद्विपरीतभूत । यतो हि संसारावस्थायामात्मा कर्माधीनो भूत्वा नारक- तिर्यङ्-मनुष्य- देवगतिषु परिभ्रमति, किन्तु मोक्षस्त्वंत: , भिन्नश्चतुर्गतिनिरोध कस्तद्विरहितश्च सन् पञ्चमगतिस्वरूप एव भवति ।
श्रात्मनो मेदा:
यदात्मा चतुर्दशष्वपि गुणस्थानेषु विचरन् समस्तानामपि कर्मणा विनाशको भवति, तदैव तस्य पञ्चमगति'र्मोक्षो' जायते । संसारावस्थायां स्थितस्य तस्य कर्माभिभूतत्वात् न तस्मिन् ता. शक्तयः प्रकटन्ति, यै खलु मुक्तावस्थायां तस्य परमात्मत्वमुपलभ्यते । ततश्चानन्त ज्ञान दर्शन सुख वीर्यञ्च धारयति । अव ताः शक्तय प्रकटन्ति याः खलु मोक्षहेतुरूपेण जैनदार्शनिकै स्वीकृताः विद्यन्ते । एवं संसारावस्थातो मोक्ष यावत् यद्यपि जीवस्थानन्ताः पर्यायकृताः भेदाः सञ्जायन्ते परं प्रामुख्येन त्रय एव, ते च यथा
(१) बहिरात्मा, (२) अन्तरात्मा, (३) परमात्मा चेति । अत्र शरीरमेवात्मेति स्वीकरणात्म के नाज्ञानेन युक्तो जीवः - बहिरात्मा । अतो ज्ञानी आत्मा स्वकं देहाद्भिन्नं ज्ञानमयञ्चावगच्छति, एवं ज्ञात्वा यः खल्वात्मध्याने लीनः, स परमात्मज्ञोऽन्तरात्मा । एवञ्च समस्तानामपि बाह्यवस्तूनां सर्वथा परित्यागे कृते सत्यन्तरात्मैव परमात्मत्वमुपलभते ।
प्रात्म-कर्मणो स्वभावः
राग-द्वेषादिमनोभावरूपा आत्मना सम्बद्धा: परमाणव एव कर्मेत्युच्यन्ते ।
मुक्तात्मनां स्वरूपम्
२४१