________________
जीवकर्मणोः सम्बन्धश्चानादिः । कर्मकृता एकात्मनोऽनेका अवस्थाः, अथ च कर्महेतुनव जीवस्य शरीरे स्थितिर्भवति । यद्यप्यात्मा कर्मवशात् शरीरस्थितस्तदपि तस्मात्सर्वथा भिन्नः, षड्द्रव्येषु केवलमेक एव चेतनोऽनन्तस्य ज्ञानानन्दस्यागारी भूत्वा शरीरप्रमाणश्च दर्शन-ज्ञान-गुणमुख्यः सन् मुक्तावस्थायां कर्मबन्धनशून्यत्वात् शून्यात्मकोऽपि भवति । यद्यपि सर्वेषामप्यात्मनामस्तित्वं पृथक्पृथग्विद्यते, परं गुणापेक्षया न तेषु कश्चन विशेषः, सर्वेषामप्यात्मनामनन्तज्ञानदर्शनसुखवीर्यागारात्मकत्वात् । केवलमशुद्धावस्थायामेवेषामेतद्गुणानां कर्मावृतत्वात्परस्परं पृथक्त्वं दरीदृश्यते । परमात्मनः स्वभावः परमात्मा खलु त्रिष्वपि लोकेष्वधर्व तिष्ठति । स शाश्वतज्ञान-सुखसमृद्धः, पुण्य-पापादिभिरप्यनिलिप्तः, निर्मलध्यानादेव प्राप्यः । विश्वञ्च तस्य ज्ञाने विद्यते, सर्वस्यापि ज्ञायकत्वात् । त एतेऽनेके परमात्मान. परस्परमभिन्नाः न त्विन्द्रियगम्याः, नापि केवलेन शास्त्राभ्यासेनैव ज्ञातु शक्याः, अपितु केवल ध्यानगम्या एते ब्रह्मा-परब्रह्म-शिव-शान्तेत्याद्यपरनामकाः सन्ति । प्रात्मैव परमात्मा आत्मा खलु कर्मवशीभूत सन्, तधेतुत्वात् न परमात्मत्वमधिगन्तुक्षमो भवति, पर यदैव स स्वं विजानाति, तदेव परमात्मत्वमधिगच्छति । स्वाभाविकगुणापेक्षया तु नास्त्यात्मनि परमात्मनि वा कश्चनापि भेद । यदा स कर्मबन्धनान्मुच्यते, तदा तस्यानन्दोऽसीमित. सजायते । एतदेवात्मनो परमात्मत्वमुच्यते, अस्यामवस्थायामात्मन्यनेके गुणाः स्वभावत एवोत्पद्यन्ते। चित्तस्य नर्मल्यम् आत्मनि परमात्मत्वमधिगते सति देहादीनां समस्तानामपि परद्रव्याणां परित्यागपूर्वकं ज्ञानावरणादिद्रव्यकर्मभिः, रागादिभावकर्मभिः, शरीरादि नोकर्मभिश्च रहितं निर्मल चित्तं सजायते, तदा स केवलज्ञानादिगुणसयुक्तः चित्तस्य नर्मल्यं भजते । शान्तः शिवश्च नैयायिकवंशेषिकः स्वीकृतो न जगतः कश्चित्कर्ता सर्वव्यापी, मुक्तः, शान्तः २४२
जनवर्शन आस्म-भव्यविवेचन