________________
शिवश्च भवत्यपितु यः खत्वनन्तज्ञानादिरूपं स्वभावं न कदापि परित्यजति, नापि कामक्रोधादिपरभावान् अधिगच्छति, अथ च त्रिष्वपि कालेषु त्रिलोकस्थितान् सर्वान्नपि पदार्थान् सर्वदा नित्यं विजानाति, स शुद्धात्मैव परमात्मत्वमधिगतः शान्तः: "", शिवश्चेत्युच्यते जैनदर्शनानुसारम् ।
निरञ्जनस्वभावः
यस्य खल्वात्मनः श्वेत- कृष्णादिपञ्चविधाः वर्णाः, द्विविधो गन्धो, मधुराम्लादिपञ्चविधाः रसाः, भाषाभाषारूपा. (सचित्ताचित्तमिश्रिताः) शब्दाः, सप्तस्वराः, जन्ममरणे, जरा चापि न सन्ति स एव चिदानन्दः, शुद्धस्वभावः, निरञ्जनो देव परमात्मेति ।
अथ च - क्रोध-मद- मोहेषु, कुलजात्याद्यष्टविधाभिमानेषु, माया-मान- कषायेषु च पुण्य-पाप-स्थान-ध्यान-हर्ष-विषाद- क्षुधा तृषादिषु चैकोऽपि दोषो नास्ति, अर्थात् स्वप्रसिद्धेः महिम्नोऽपूर्ववस्तुनः संयोगस्य वियोगस्य वा इच्छारूपादिविभागपरिणामान् परित्यज्य शुद्धात्मनोऽनुभूतिज्ञानस्वरूपनिर्विकल्पकसमाधौ स्थितो भवति स एव निरञ्जनः ११, निर्मल:, ज्ञानदर्शनस्वभावः परमात्मा भवतीति ।
वेदः शास्त्रश्चागम्यत्वम्
वेदानां शास्त्राणाञ्च शब्दरूपात्मकत्वात् नेते शब्दातीतमात्मानं परिज्ञातु शक्तुवन्ति यतो हि इन्द्रियाणि मनश्च विकल्परूपाणि मूर्तिकपदार्थज्ञानसमर्थानि शुद्धो निरञ्जनस्वरूपात्मा तु निर्विकल्पोऽमूत्तंश्च वर्ततेऽतो नायं वेद शास्त्रैरिन्द्रियादिभिर्वाधिगन्तु "पार्यते, अपितु मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपैः पञ्चविधास्रवैविरहितो निर्मलस्वभावः शुद्धात्मा शास्त्रश्रवणजन्मशुद्धध्यानावाप्तितयैवानुभूयते इति ।
श्रात्मनो बेहस्थितावपि परमात्मत्वम्
परमात्मा खलु सकल - विकलभेदेन द्विविधस्तत्र सकलपदवाच्या अहन्तः, साकाराः, शरीरसहिताः भवन्ति । यश्चोदारिकादिपञ्चविधशरीरविरहितः सर्वोत्कृष्टः, केवलज्ञान -दर्शन-सुख वीर्ययुक्तो निराकारः, स विकलः परमात्मा सिद्ध:, स एव परमपदे लोकस्योर्ध्वभागे विराजते । याशोऽयं सिद्धात्मा परमे पदे विराजते तथैवास्मिन् देहे स्थितोऽपि तत्स्वभावो"" विराजते ।
मुक्तावस्थायां यथाजातस्वभाव आत्मैव परमात्मा भवति, तथैव केवलमुक्तात्मनां स्वरूपम् २४३