Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi
View full book text
________________
क्षये सति केवलज्ञानमुत्पद्यते । अर्थादत्र केवलज्ञानोत्पत्ती चतसृणां कर्मप्रकृतीनां क्षय एव हेतुविद्यते । एषु चतुर्वपि घातिकर्मसु पूर्व मोहनीयस्य क्षये सति ज्ञानदर्शनावरणान्तरायादीना पश्चात् क्षयः सम्पद्यते, अर्थात् मोहनीयस्य क्षयानन्तरमेव ज्ञानावरणादीनां त्रयाणां युगपदेव क्षयो जायते, यस्मात् विशुद्धतमं पूर्णज्ञानं केवलाख्यमुत्पद्यते इति । मतिश्रुतयोविषयः मति-श्रुतयोईयोरपि ज्ञानयोः परोक्षत्वमुक्तमेव, तेषु पररूपेषु कारणेषु इन्द्रियाणां क्षेत्र, विषयश्च नियत एव, अत आभ्या मति-श्रुताभ्यां समग्राणां द्रव्याणां तत्पर्यायाणाञ्च ज्ञानमसम्भवम्, मनोऽपि धर्मादीनां द्रव्याणां सूक्ष्मातिसूक्ष्मपर्यायान् ज्ञातुमक्षममत एव मतिज्ञानं श्रुतज्ञानञ्च द्रव्याणि सामस्त्येन तु जानन्ति, परं तेषा सर्वविधपर्यायान् ज्ञातुमक्षमे" एव स्तः । अत्र मानसमतिज्ञानस्य धर्मावर्माकाशाद्यरूप्यतीन्द्रियपदार्थानामपि ज्ञायकत्वादनयोर्मतिथ तयो सर्वद्रव्यसंग्राहकत्वं" सिध्यति । अवधिज्ञानस्य विषयः अवधिज्ञानस्य विषय केवलं रूपिद्रव्यमेव विद्यते न तत्पर्याया.। अर्थादतिविशुद्धावधिज्ञानयुक्तोऽपि कश्चित् रूपिणो द्रव्याण्येवावगच्छति, रूपिद्रव्यस्य सम्पूर्णपर्यायान्, रूपिद्रव्यातिरिक्तानन्यान् पदार्थान् वावगन्तु न प्रभवति । अत्रोपलक्षितेन रूपेण रस-स्पर्श-गन्धादीनामपि ग्राह्यत्वाद् प-रस-गन्ध-युक्तानां पुद्गलानामेव" ग्रहणं भवति । मनःपर्ययस्य विषयः अवधिज्ञानविषयभूतानां रूपिद्रव्याणामनन्तं भागं मन.पर्ययज्ञानं विषयीकरोति । यतो हि, मन.पर्ययज्ञानमन्तःस्थितत्वात् अन्तःकरणविचारागतानां रूपिद्रव्याणा मनुष्यक्षेत्रस्थितानामवधिज्ञानादतिविशुद्धः सूक्ष्मतरर्बहुतरश्च पर्यायैः सह गृह णाति । अर्थान्मन पर्ययज्ञानस्य विषयोऽवविषयस्यानन्तकभागप्रमाणं रूपिद्रव्यम्, तच्चाप्यसर्वपर्याययुक्तमेव" । अत इदमवध्यपेक्षया सूक्ष्मातिसूक्ष्म विषय विशेषेण विजानातीति । केवलज्ञानविषयः जीवपुद्गलादीनि सर्वाण्यपि द्रव्याणि, तेषाञ्च त्रिकालवर्तिनः समग्रपर्यायाः २२८
जैनदर्शन आत्म-व्यविवेचनम्

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190