Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 152
________________ मसामर्थ्याभावान्नेदं कथमप्युत्पादयितुं शक्यते", इति । एवं मनुष्यतिरश्चामपि भवप्रत्ययेतरो गुणप्रत्ययकोऽधिर्भवितुं शक्यते । मन:पर्ययज्ञानम् (Mental Knowledge ) यत् खलु सर्वविधप्रमादरहितं मन:पर्ययज्ञानावरणकर्मक्षयोपशमाधिगतमेकमत्यन्तविशिष्टं क्षायोपशमिकं प्रत्यक्ष तन्निमित्तान्मनुष्यलोकवर्तिनो मनः पर्याप्तेर्धारकस्य पञ्चेन्द्रियप्राणिनः त्रिकालवfत्तमनोगतविचाराणां इन्द्रियमनसा साहाय्यं विनैव यज्ज्ञानं जायते तन्मनः पर्ययज्ञानमित्युच्यते" । अर्थात् येन ज्ञानेन परमनोगतं चिन्तितमचिन्तितमर्ध चिन्तितं वा विषयकं ज्ञानं सञ्जायते तन्मन:पर्ययज्ञानमिति । तदिदं मन:पर्ययज्ञान ऋजुमति, विपुलमतिश्चेत्यात्मकं द्विविधं भवति । तत्र यज्ज्ञानं ऋजु - सामान्यपर्यायान् एव गृह्णाति, अर्थात् यज्ज्ञानं सरलमनोगतमर्थमवगच्छति, तद् ऋजुमतिमन:पर्ययज्ञानमित्युच्यते । एव ऋजुमतिमनःपर्ययज्ञानं वर्तमानकालवत्तिन एव जीवस्य चिन्त्यमानपर्यायान् विषयीकतु शक्नोति । यच्च विपुल. बहुपर्यायान् गृहीतु शक्नोत्यर्थात् यज्ज्ञानं कुटिलमनोगतमप्यर्थमवगच्छति तद्विपुलमतिमन:पर्ययज्ञानम् । एवं विपुलमतिमन - पर्ययज्ञानं त्रिकालवर्तिना जीवेन चिन्तिताचिन्तितार्धं चिन्तितान्नपि पर्यायान् गृहीतुं शक्नोति । किञ्चात्र ऋजुमतिमन पर्ययस्य (Simple Mental) तद्विषयका : काय वाङ्मनःसम्बन्धिनस्त्रयो भेदा: " सजायन्ते । तथा च विपुलमतिमनः पर्ययस्य ( Complex Mental) ऋजु कुटिलोभयमतिविषयसम्बन्धिनः षड्भेदाः " भवन्तीति । तदिदं मन:पर्ययज्ञानं न दर्शनपूर्वकं भवति । यथा खल्ववधिज्ञानं प्रत्यक्षत्वयुक्तमपि दर्शनपूर्वकमेव भवति, न तथेदं मन:पर्ययज्ञानम्, यतो ह्यत्रावग्रहाभावाद् ईहाकरणात्समारम्भाच्च न दर्शनं पूर्वमुत्पद्यते इति । प्रवषिमनः पर्यययोविशेषः अत्रावधिज्ञानापेक्षया मन:पर्ययस्यास्ति विशुद्धतरत्त्वम्" । यतो हि यावन्तो रूपिणः पदार्थाः अवधिज्ञानेन ज्ञायन्ते तावन्तः पदार्थाः मन:पर्ययज्ञानेनाधिक्येन स्पष्टतया मनोगताश्चापि ज्ञायन्ते । एवमेव क्षेत्रापेक्षयाप्यनयोः " २२६ जनदर्शन आत्म-प्रम्यविवेचनम्

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190