Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 151
________________ (१) अनुगामी (Acompanying)। (२) अननुगामी (Non-Acompanying) । (३) वर्द्धमानम् (Increasing)। (४) हीयमानम् (Decreasing ) । (५) अवस्थितम् ( Steadfast) । (६) अनवस्थितम् ( Unsteady or Changeable) । अत्र यज्ज्ञानं सूर्यप्रकाशवत् स्वस्वामिनं क्षेत्रान्तरे भवान्तरे उभयत्र वानुगच्छति, तदनुगामीति, एतद्विपरीतञ्चाननुगामि । यच्च ज्ञानं वलक्षपक्षक्षपाकरवदनुदिनं तपश्चरणादि जन्यात्मशुद्धिवशात् सम्यग्दर्शनादिगुणप्रकर्षाच्च वर्द्धते वर्द्धमानमिति । एतद्विपरीतमनुदिनं हीयमानं ज्ञानं हीयमानमिति । यच्च ज्ञानं सूर्यमण्डलवन्न तु हीयते, नापि वर्द्धते, सततं सदवस्थमेव भवति, तदवस्थितम् । यच्च ज्ञानं चन्द्रमण्डलवत् कदाचिद्वर्धते कदाचिच्च हीयते, नंककदापि तिष्ठति, तदनवस्थितमित्युच्यते । कि चेदमव विज्ञानमन्यतस्तु त्रिविधमपि भवति । तद्यथा - ( १ ) देशावधि: (Partial Visual), (२) परमावधि: ( High Visual), (३) सर्वावधिश्चेति (Full Visual) । तत्र भवप्रत्ययकोऽवधिस्तावत् केवलं देशावधिरूपात्मक एव यदा हि गुणप्रत्ययकोऽवधिः परमावधि सर्वावधिरूपश्च सन् देशावधिरूपोऽपि भवति । यद्यपि अवधिज्ञानावरणस्य क्षयोपशमादेव अवधिज्ञानमिदमुत्पद्यते, किन्तु देव-नारकेषूत्पद्यमानमिदं न तत्क्षयोपशमाख्यं भवत्यपितु भवप्रत्ययाख्यमेव, यतो हि तत्र तेषां भव एव तदुत्पादक हेतुर्भवतीति । यः कोऽपि जीवस्तद्भवधारको जायते स एतेन युज्यते, इत्याशयः । अथवा तत्र परोपदेशस्य तपश्चरणस्य चाभावान्न तन्निमित्तकं क्षयोपशमाख्यमवधिज्ञानं भवतीत्यर्थः । यच्चानुगाम्यादिषड्विधं गुणप्रत्ययमवधिज्ञानमन्तरङ्गबाह, यनिमित्ताभ्यामुत्पद्यते, तत्र क्षयोपशमवैचित्र्यमन्तरङ्गकारणम्, संयम-स्थानाद्यन्यनिमित्तानां भयरूपं च बाह्यकारणम् । अतएवात्र देवनारकयोरिव भवधारणादेवावधिज्ञानावरणकर्मणां क्षयोपशमाभावात् तपःसंयमानुचरणजन्यक्षयोपशमात्मकत्वात् क्षयोपशमनिमित्तमित्युच्यते । किञ्चेदमवधिज्ञानं मानवेषु केषुचित्तिर्यञ्चेष्वपि च सम्यग्दर्शनादिभिरवधिज्ञानावरणस्य क्षयोपशमे सति सञ्जायते, किन्त्वसंज्ञ यपर्याप्तकेषु तु क्षयोपश सम्यानम् २२५

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190