________________
(१) अनुगामी (Acompanying)।
(२) अननुगामी (Non-Acompanying) । (३) वर्द्धमानम् (Increasing)।
(४) हीयमानम् (Decreasing ) ।
(५) अवस्थितम् ( Steadfast) ।
(६) अनवस्थितम् ( Unsteady or Changeable) ।
अत्र यज्ज्ञानं सूर्यप्रकाशवत् स्वस्वामिनं क्षेत्रान्तरे भवान्तरे उभयत्र वानुगच्छति, तदनुगामीति, एतद्विपरीतञ्चाननुगामि । यच्च ज्ञानं वलक्षपक्षक्षपाकरवदनुदिनं तपश्चरणादि जन्यात्मशुद्धिवशात् सम्यग्दर्शनादिगुणप्रकर्षाच्च वर्द्धते
वर्द्धमानमिति । एतद्विपरीतमनुदिनं हीयमानं ज्ञानं हीयमानमिति । यच्च ज्ञानं सूर्यमण्डलवन्न तु हीयते, नापि वर्द्धते, सततं सदवस्थमेव भवति, तदवस्थितम् । यच्च ज्ञानं चन्द्रमण्डलवत् कदाचिद्वर्धते कदाचिच्च हीयते, नंककदापि तिष्ठति, तदनवस्थितमित्युच्यते ।
कि चेदमव विज्ञानमन्यतस्तु त्रिविधमपि भवति । तद्यथा - ( १ ) देशावधि: (Partial Visual), (२) परमावधि: ( High Visual), (३) सर्वावधिश्चेति (Full Visual) । तत्र भवप्रत्ययकोऽवधिस्तावत् केवलं देशावधिरूपात्मक एव यदा हि गुणप्रत्ययकोऽवधिः परमावधि सर्वावधिरूपश्च सन् देशावधिरूपोऽपि भवति ।
यद्यपि अवधिज्ञानावरणस्य क्षयोपशमादेव अवधिज्ञानमिदमुत्पद्यते, किन्तु देव-नारकेषूत्पद्यमानमिदं न तत्क्षयोपशमाख्यं भवत्यपितु भवप्रत्ययाख्यमेव, यतो हि तत्र तेषां भव एव तदुत्पादक हेतुर्भवतीति । यः कोऽपि जीवस्तद्भवधारको जायते स एतेन युज्यते, इत्याशयः । अथवा तत्र परोपदेशस्य तपश्चरणस्य चाभावान्न तन्निमित्तकं क्षयोपशमाख्यमवधिज्ञानं भवतीत्यर्थः । यच्चानुगाम्यादिषड्विधं गुणप्रत्ययमवधिज्ञानमन्तरङ्गबाह, यनिमित्ताभ्यामुत्पद्यते, तत्र क्षयोपशमवैचित्र्यमन्तरङ्गकारणम्, संयम-स्थानाद्यन्यनिमित्तानां भयरूपं च बाह्यकारणम् । अतएवात्र देवनारकयोरिव भवधारणादेवावधिज्ञानावरणकर्मणां क्षयोपशमाभावात् तपःसंयमानुचरणजन्यक्षयोपशमात्मकत्वात् क्षयोपशमनिमित्तमित्युच्यते ।
किञ्चेदमवधिज्ञानं मानवेषु केषुचित्तिर्यञ्चेष्वपि च सम्यग्दर्शनादिभिरवधिज्ञानावरणस्य क्षयोपशमे सति सञ्जायते, किन्त्वसंज्ञ यपर्याप्तकेषु तु क्षयोपश
सम्यानम्
२२५