________________
मसामर्थ्याभावान्नेदं कथमप्युत्पादयितुं शक्यते", इति । एवं मनुष्यतिरश्चामपि भवप्रत्ययेतरो गुणप्रत्ययकोऽधिर्भवितुं शक्यते ।
मन:पर्ययज्ञानम् (Mental Knowledge )
यत् खलु सर्वविधप्रमादरहितं मन:पर्ययज्ञानावरणकर्मक्षयोपशमाधिगतमेकमत्यन्तविशिष्टं क्षायोपशमिकं प्रत्यक्ष तन्निमित्तान्मनुष्यलोकवर्तिनो मनः पर्याप्तेर्धारकस्य पञ्चेन्द्रियप्राणिनः त्रिकालवfत्तमनोगतविचाराणां इन्द्रियमनसा साहाय्यं विनैव यज्ज्ञानं जायते तन्मनः पर्ययज्ञानमित्युच्यते" । अर्थात् येन ज्ञानेन परमनोगतं चिन्तितमचिन्तितमर्ध चिन्तितं वा विषयकं ज्ञानं सञ्जायते तन्मन:पर्ययज्ञानमिति ।
तदिदं मन:पर्ययज्ञान ऋजुमति, विपुलमतिश्चेत्यात्मकं द्विविधं भवति । तत्र यज्ज्ञानं ऋजु - सामान्यपर्यायान् एव गृह्णाति, अर्थात् यज्ज्ञानं सरलमनोगतमर्थमवगच्छति, तद् ऋजुमतिमन:पर्ययज्ञानमित्युच्यते । एव ऋजुमतिमनःपर्ययज्ञानं वर्तमानकालवत्तिन एव जीवस्य चिन्त्यमानपर्यायान् विषयीकतु शक्नोति । यच्च विपुल. बहुपर्यायान् गृहीतु शक्नोत्यर्थात् यज्ज्ञानं कुटिलमनोगतमप्यर्थमवगच्छति तद्विपुलमतिमन:पर्ययज्ञानम् । एवं विपुलमतिमन - पर्ययज्ञानं त्रिकालवर्तिना जीवेन चिन्तिताचिन्तितार्धं चिन्तितान्नपि पर्यायान् गृहीतुं शक्नोति ।
किञ्चात्र ऋजुमतिमन पर्ययस्य (Simple Mental) तद्विषयका : काय वाङ्मनःसम्बन्धिनस्त्रयो भेदा: " सजायन्ते । तथा च विपुलमतिमनः पर्ययस्य ( Complex Mental) ऋजु कुटिलोभयमतिविषयसम्बन्धिनः षड्भेदाः " भवन्तीति ।
तदिदं मन:पर्ययज्ञानं न दर्शनपूर्वकं भवति । यथा खल्ववधिज्ञानं प्रत्यक्षत्वयुक्तमपि दर्शनपूर्वकमेव भवति, न तथेदं मन:पर्ययज्ञानम्, यतो ह्यत्रावग्रहाभावाद् ईहाकरणात्समारम्भाच्च न दर्शनं पूर्वमुत्पद्यते इति ।
प्रवषिमनः पर्यययोविशेषः
अत्रावधिज्ञानापेक्षया मन:पर्ययस्यास्ति विशुद्धतरत्त्वम्" । यतो हि यावन्तो रूपिणः पदार्थाः अवधिज्ञानेन ज्ञायन्ते तावन्तः पदार्थाः मन:पर्ययज्ञानेनाधिक्येन स्पष्टतया मनोगताश्चापि ज्ञायन्ते । एवमेव क्षेत्रापेक्षयाप्यनयोः "
२२६
जनदर्शन आत्म-प्रम्यविवेचनम्