________________
परस्परं विशेषो विद्यते, तद्यथा-अवधिज्ञानस्य क्षेत्रमगुलासंख्येयतमभागात्समारभ्य सम्पूर्ण लोकात्मकं क्षेत्र विद्यते, अर्थात् सूक्ष्म निगोदस्य लब्ध्यपर्याप्तकस्य उत्पत्तितस्तृतीये समये यस्य शरीरस्य जघन्यावगाहना भवति, तत्प्रमाणमवधिज्ञानस्य क्षेत्रम् । क्षेत्रेऽस्मिन् यावन्तोऽपि जघन्याः पदार्थास्तान् ज्ञातुं समर्थमवधिज्ञानम् । अस्मादुपरि क्रमशो वृद्धिमुपलभन् अवधिज्ञानस्य क्षेत्र लोकपर्यन्तम्, तत्र स्वस्वयोग्यक्षेत्रस्थितं प्रत्येकमपि पदार्थमवधिज्ञानं विजानाति । परमेतन्मनःपर्ययविषये न संघटते । यतो हि, तत्क्षेत्र तु मनुष्यलोकमात्रम् । तदन्त एव संझिनो जीवस्य मनःपर्ययान् विज्ञातुक्षम मनःपर्ययज्ञानम्, न तस्माद्बहिरिति । विशुद्धिक्षेत्रापेक्षावत्स्वामिनोऽपेक्षयाप्यनयोरस्ति विशेष एकोऽन्यस्तद्यथाअवधिज्ञानं खलु संयमासंयमेषु, संयतासयतश्रावकेषु, चतुर्गत्यात्मकेषु जीवेषु चापि भवितु शक्नोति, परं मनःपर्ययज्ञानं तु केवलं सयमिषु जायते. नान्येषु। एवमेव विषया"ऽपेक्षयापि अनयोरन्यद्विशेषो विद्यते, तथाहि-अवधिज्ञानं खलु रूपिणः पदार्थान्, तत्सर्वान् पर्यायांश्चापि विजानाति, यदा हि मनःपर्ययस्तावदवधेविषयस्यानन्तं भागमेव विषयत्वेन गृह णाति । अर्थात् मनःपर्ययस्य विषयोऽवधिज्ञानापेक्षयात्यन्तं सूक्ष्मो विद्यते । ऋजुविपुलमत्योविशेषः ऋजुमतिमनपर्ययज्ञानाद्विपुलमतिमनःपर्ययज्ञानं विशुद्धितया प्रतिपातेन" विशिष्टम्, यतो हि, ऋजुमतेविषयः स्तोकः, विपुलमतेश्च विषयोऽधिको विद्यते। ऋजुमतियोवतः पदार्थान् येन सौक्ष्म्येन ज्ञातु प्रभवति, विपुलमतिस्तान् पदार्थान् विविधविशिष्टगुणैः पर्यायश्च सहात्यन्तसूक्ष्मतया ज्ञातु प्रभवति । अतएव ऋजुमत्यपेक्षया विपुलमतिज्ञानं विशुद्धितरम् । अप्रतिपातिवैशिष्ट्यञ्चेदम्-ऋजुमतिमनःपर्ययज्ञानं तूत्पद्यते विनश्यति चार्थाद वारम्वारमुत्पद्यमानमपि पुनः पुनर्विनाशमधिगच्छति । परमयं विशेषो विपुलमति ज्ञाने विद्यते यदेकदोत्पन्न तन्न विनाशमधिगच्छति, अपितु तज्ज्ञानं यस्मिन् यदैकवारमुत्पन्नम्, तस्मात् तं जीवं तेनैव भबेन केवलज्ञानोत्पत्यन्तरं निर्वाणपदमपि प्राप्तव्यं भवति । अतएव विपुलमति जुमत्यपेक्षया अप्रतिपातीअप्रतिघाती, अतो विशुद्धितरो भवतीति । केवलज्ञानम् (Perfect Knowledge) चतुर्णा धातिकर्मणां-मोहनीय-ज्ञानावरणीय-दर्शनावरणीय-अन्तरायाख्यानां
२२७