________________
प्रवग्रहः (Perception)
अत्रेन्द्रियाणां पदार्थों: सन्निकर्षे सति यदाद्यमर्थग्रहणमर्यात्पदार्थानां सामान्यावलोकनात्मकं ज्ञानमवग्रह" इत्युच्यते । अत्र कैश्चिदस्य संशयत्वमप्यभिधीयते, परं तन्न समीचीनम्, तथाहि - संशयः खलु स्थाणुपुरुषावनेकपदार्थेषु अनिश्चयात्मकत्वात् निराकरणाक्षमो भवति, यदा हि-निश्चयात्मकत्वात् स्वविषयादुभिन्नानां पदार्थाना निराकरणक्षमत्वाच्च पदार्थेकविषयोऽवग्रहो भवति । एवं संशयस्तु निर्णयविरुद्धः, अवग्रहश्च यावन्तोऽपि तस्य विशेषास्तावद् तत्तद्विशेषस्य सर्वस्यापि निर्णायकत्वादुद्बोधात्मको भवति । अतो द्वयोरपि विभिन्नलक्षणात्मकत्वात् नैकत्व" युज्यते ।
सोऽयमवग्रहः व्यक्ताव्यक्तपदार्थसम्बन्धकत्वाद् द्विविधो भवति । तथाहि अव्यक्तशब्दादिपदार्थानां येषामिन्द्रियसम्बन्धानन्तरमेवाऽवगमनं जायते, तेषामवग्रह एव भवति, न त्वीहादयोऽपि । अतोऽत्र अव्यक्तग्रहणात्पूर्वमव्यक्तरूपं यज्ज्ञानमुत्पद्यते, तद्व्यञ्जनावग्रह इत्युच्यते । यच्च व्यक्तपदार्थाना ग्रहणं तदेवार्थावग्रहपदेनोच्यते । इत्थमयमवग्रहः व्यञ्जनावग्रहः, अर्थावग्रहश्वेति द्विविधो" भवति ।
अत्रापि च यद्व्यञ्जनावग्रहस्तस्य न कदापि चक्षुषा मनसा वोत्पत्तिर्भवति यतो हि, जैनदर्शने चक्षुर्मनश्चाप्राप्यकार्य रीत्यभिहितम् । अत एतयोरप्राप्यकारित्वात् योग्य देशस्थितस्यापि पदार्थस्यासम्बन्धात् सन्निकर्षाभावान्न तयोर्व्यञ्जनावग्रहो भवतीति । अत्र मनसोऽप्राप्यकारित्वं तु निर्विवादमेव, परं चक्षुषोऽप्राप्यकारित्वं केवल जैनरेव प्रतिपादितम् यतो हि चक्षुरपि नार्थान् संस्पृश्यावगच्छति । एतदेव पञ्चास्तिकाये "ऽभिहितम् कुन्दकुन्दाचार्यैः । ईहा (Conception)
अवग्रहेणाद्यग्रहणे कृते सति तत्सम्बन्धिविशेषाकाङ्क्षणमीहा" । यथा खलु कञ्चनपुरुषविशेषं दृष्ट्वाऽवगृहीतं 'यदयं कश्चित्पुरुष' इति । पुनश्च तद्विषये वेषायुर्भाषामाध्यमेन विशिष्ट ज्ञातुमभिलाषा योत्पद्यते संव 'हे' त्युच्यते । यद्यप्यत्रास्याभिलषितमुद्दिश्यास्यापि सशयात्मकत्वं" तद्रूपं वेति शङ्कितम्, तदभ्यसम्यगेव यतो हि सशयस्तावत् कस्यचिदपि वस्तुनो निर्णयेऽसमर्थः, किन्त्वत्र तु यदुवेशभाषायुषादिदर्शनात् 'किमयमुत्तरदेशीयो दक्षिणदेशीयो 'त्यात्मकं यदभिलषणमुत्पद्यते तस्य निर्णयपूर्वकत्वात्, निर्णयात्मकत्वाद्वा न संशय कोटित्त्वमुपलभ्यते, यतो हीहा निर्णयार्थमेवोत्पद्यते ।
२१८
जनदर्शन आत्म-प्रम्यविवेचनम्