________________
प्राधान्यादुत्पद्यमानं प्रमाणं परोक्षम् । यथा खलु गतिशक्तियुक्तत्वेऽपि स्वयं गन्तुमशक्तस्य पुरुषस्य गमनं दण्डाद्यवलम्बनप्रधानं भवति, तथैव मतिश्रुतावरणयोः क्षयोपशमे सत्यपि स्वयमेवार्थान्नुपलब्धुमसमर्थस्याज्ञ-स्वभावस्यात्मन उपात्तानुपात्तादीनां प्राधान्याद्यज्ज्ञानं पराधीनं मतिश्रुतात्मकं जायते, तदुभयविधमेव परोक्षमित्युच्यतेऽर्थात् इदं मतिश्रुतज्ञानं परायत्तम्, नत्वज्ञानम्, नाप्यनवबोधो वेति ।
स्मृतिसंज्ञादीनां मतित्वम्
स्मृति-संज्ञा - चिन्ता अभिनिबोधादीनां सर्वेषां मतिज्ञानावरणक्षयोपशमनिमितादेवार्थस्योपलब्धी वृत्तेरनर्थान्तरत्वान्मतित्वमेवोपपद्यते, न तु मतिभिन्नत्वम् । यद्यप्यत्र शब्दभेदादेतेषामस्ति परस्पर भेदः, परमुत्पादकहेतुसादृश्यात्वभेद एवास्ति, यश्चैषां शब्दकृतो भेदस्तत्तु तत्तत्पर्यायापेक्षयास्ति । यथा खलूष्णत्वमग्नेरभिन्नत्वात्तल्लक्षणम्, तथैव स्मृत्यादीनामभिनिबोधसामान्यात्मकस्य मतिज्ञानस्य लक्षकत्वान्मतिज्ञानलक्षणत्वम् । अर्थात् मति स्मृतिचिन्तादिशब्दैर्यदुच्यतेऽवबुध्यते वा तत्सर्वं मतिज्ञानमेवेति ।
मतिज्ञानस्य भेदा:
तदेतन्मतिज्ञानमिन्द्रियैर्मनसा च तन्निमित्तकमुत्पद्यतेऽर्थात् इन्द्रियाणां मनसश्च साहाय्यादेव मतिज्ञानमुत्पद्यते, अत्र कर्ममलीमसस्य इन्द्रस्य - आत्मन. स्वयमर्थान् गृहीतुमसमर्थस्यार्थोपलम्भने यल्लिङ्गं तदेवेन्द्रियमिति भट्टाकलङ्कविवेचितम् । अनुदरा कन्यावच्च अन्त करणरूपं मन एवानिन्द्रियम् । तयोर्द्धयोरपि युगपत् साहाय्यात् मतिज्ञानमुत्पद्यते । न मनसोऽभावेऽपीदमुत्पादयितु शक्यम्, यतो हि मनसोऽनवधाने सति नेन्द्रियाण्यभिमुखं स्थित पदार्थ गृहीतुं समर्थानि भवन्तीति । एतच्चेन्द्रियैर्मनसा च साहाय्येनोत्पद्यमानं ज्ञानं येन क्रमेणोत्पद्यते, तस्य क्रमस्य चत्वारो विभागाः सन्ति, तदपेक्षया मतिज्ञानस्यापि चत्वारो भेदाः" सञ्जायन्ते, ते च चत्वारः क्रमाः यथा-
( १ ) अवग्रह: ( Perception ) ।
(२) ईहा (Conception ) ।
(३) अवाय (Judgment ) । (४) धारणा चेति (Retention ) ।
सम्यग्ज्ञानम्
२१७