Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi
View full book text
________________
सायादिरहितं यथार्थावबोधरूपं सम्यग्ज्ञानम्"। दर्शनानन्तरं सकृदेवेदमुत्पद्यतेऽतएवेदं दर्शनपूर्वकमित्यप्युच्यते। तदिदं मतिज्ञानावरणीयादिपञ्चविधज्ञानावरणीयकर्मणां क्षयादुपशमाच्चोत्पद्यतेऽतोऽस्य तन्निमित्तकाः पञ्चभेदाः सन्ति । ते च यथा
(१) मतिज्ञानम् (Sensitive Knowledge)। (२) श्रुतज्ञानम् (Scriptural Knowledge)। (३) अवधिज्ञानम् (Visual Knowledge)। (४) मनःपर्ययज्ञानम् (Mental Knowledge)।
(५) केवलज्ञानमिति च (Perfect Knowledge)। लोके यावन्तोऽपि पदार्था (विषया.) विद्यन्ते, आसन, भविष्यन्ति चेति त्रिकालस्थितान् तान् सन्निपि, तेषां गुणपर्यायाश्च प्रत्यक्षेण परोक्षेण वा यद्विजानाति, तज्ज्ञानमित्युच्यते"। तस्य पञ्चविधस्याद्यानि त्रीणि ज्ञानानि विभङ्गात्मकानि विपरीतान्यपि जायन्ते, तैश्च सह ज्ञानस्याष्टो भेदा. भवन्ति, परमेतेषा त्रिविधाना विभङ्गानामसम्यक्त्वादत्र च सम्यग्ज्ञानस्य मोक्षहेतुभूतस्य प्रसगात् न तेषा विश्लेषण क्रियतेप्रासङ्गिकत्वात् । मतिज्ञानम् (Sensitive Knowledge) मननं मति , मनुतेऽर्थान् या सा मतिः, मन्यतेऽनेन वेति ज्ञानस्यात्मनश्च भेदविवक्षयाऽस्य भाव-कर्तृ-करणसाधनत्वं सघटते। तदिद मतिज्ञान तदावरणभूतकर्मणा क्षयोपशमे सति मनस इन्द्रियाणाञ्च साहाय्यादर्थाना मननरूपमुत्पद्यते । अर्थादात्मना परोपदेशादिना विनैव यज्ज्ञानमुत्पद्यते तन्मतिज्ञानमिति । श्रुतज्ञानम् (Scriptural Knowledge) श्रुतपरिणत आत्मेति श्रुतम्, श्रूयते येन तत् श्रुतम्, शृणोतीति वा श्रुतम् । श्रुतावरणकर्मणा क्षयोपशमे सति बाह्याभ्यन्तरहेतुद्वयसन्निधाने च यत् श्रूयते, तत् श्रुतज्ञानमित्युच्यते । मतिश्रुतयो' परोक्षत्वम् उपरिलिखित पञ्चविधमपि ज्ञान प्रमाणात्मकम्, तत्रापि एतयोर्द्व योः मतिश्रुतयो. परोक्षत्वम्, शेषाणां तु प्रत्यक्षत्वम् । यतो ह्यत्र परशब्देनोपात्तानामिन्द्रियाणा मनसश्च प्रकाशोपदेशादोनामनुपात्तानां ग्रहणमस्ति। परस्य
जनदर्शन आत्म-तव्यविवेचनम्

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190