Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 147
________________ प्रथमः (Calmness) राग-द्वेष - क्रोधादिकषायाणामनुद्र कात् तेषां रामद्वेषादीनामजागृतिः, तज्जेतुं प्रयत्नो वा प्रशम इत्युच्यते । संवेगः (Fear of Mundane Existence ) - संसारहेतुभूतानां कर्मणां संग्रहो मयि न स्यादित्यनया भावनया जन्ममरणादियुक्तं संसारं दृष्ट्वा तस्माद्भीतिः संवेगः । अनुकम्पा (Compassion for All Living Beings) - जगतः सर्वेष्वपि प्राणिषु दयाभावना, जगतः जीवानामभयस्य भावना वानुकम्पेति । प्रास्तिक्यम् (Belief in the Principles) - जीवादिपदार्थानां यदागमवर्णितं स्वरूपम्, तदेव सम्यगिति कृत्वा तत्तत्पदार्थानां तत्तत्स्वरूपेणावगमनमास्तिक्यमिति । एभ्यः पञ्चभावेभ्य उत्पद्यमान दर्शनं सरागसम्यग्दर्शनमित्येवोच्यते, यतो ह्यते भावाः खलु रागयुक्तायामवस्थायामेवोत्पद्यन्ते । न तदा रागादिभ्यो मुक्त आत्मा तिष्ठत्यतएव तेषां सरागत्व युक्तम् । सम्यक्त्व-प्रकृतौ सम्यग्दर्शने च भेदः कर्मप्रकृतिषु गृहीतस्य मोहनीयान्तर्भूतस्य सम्यक्त्वस्य पुद्गलपर्यायात्मकत्वात् पुद्गलत्वमेव विद्यतेऽथ चेद सम्यक्त्वमात्मविशुद्धया क्षीणशक्ति कमपि भवति, अत इदं सम्यक्त्वं न मोक्षस्योपादानकारणभूतमात्मपरिणामविशेषात् औपशमिका दिनिमित्तात् सम्यग्दर्शनं भवति । यतो ह्यत्र सम्यग्दर्शनस्यात्मनोऽन्त परिणामात्मकत्वादुपादेयत्वम्, सम्यक्त्वप्रकृतेश्च पुद्गलपरिणामात्मकत्वाद् हेयत्वम् । अथ च सम्यक्त्वस्य क्षयादेव क्षायिकं सम्यग्दर्शनमुत्पद्यतेऽतोऽत्र सम्यग्दर्शनस्याहेयत्वात्, प्रधानत्वात् प्रत्यासन्नमोक्षकारणत्वाच्च पुद्गलरूपसम्यक्त्वेन विभेदोऽस्त्येवेति । एवमस्य सम्यग्दर्शनस्य सद्भावे सति सम्यग्ज्ञानम्, ततश्च सम्यक्चारित्रमुत्पद्यते, तत्तत्पूर्वकत्वात्तयोः । एते च त्रय एव समुदिता: मोक्षमार्गस्वरूपाः, न तु व्युदिताः कथमपि सम्भवन्ति । सम्यग्ज्ञानम् मोक्षमार्गात्तभूतमिदं प्रमाणनयंजवादितत्त्वानां संशय-विपर्यय - अनध्यव २१५ सम्प

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190