________________
प्रथमः (Calmness) राग-द्वेष - क्रोधादिकषायाणामनुद्र कात् तेषां रामद्वेषादीनामजागृतिः, तज्जेतुं प्रयत्नो वा प्रशम इत्युच्यते ।
संवेगः (Fear of Mundane Existence ) - संसारहेतुभूतानां कर्मणां संग्रहो मयि न स्यादित्यनया भावनया जन्ममरणादियुक्तं संसारं दृष्ट्वा तस्माद्भीतिः संवेगः ।
अनुकम्पा (Compassion for All Living Beings) - जगतः सर्वेष्वपि प्राणिषु दयाभावना, जगतः जीवानामभयस्य भावना वानुकम्पेति ।
प्रास्तिक्यम् (Belief in the Principles) - जीवादिपदार्थानां यदागमवर्णितं स्वरूपम्, तदेव सम्यगिति कृत्वा तत्तत्पदार्थानां तत्तत्स्वरूपेणावगमनमास्तिक्यमिति ।
एभ्यः पञ्चभावेभ्य उत्पद्यमान दर्शनं सरागसम्यग्दर्शनमित्येवोच्यते, यतो ह्यते भावाः खलु रागयुक्तायामवस्थायामेवोत्पद्यन्ते । न तदा रागादिभ्यो मुक्त आत्मा तिष्ठत्यतएव तेषां सरागत्व युक्तम् ।
सम्यक्त्व-प्रकृतौ सम्यग्दर्शने च भेदः
कर्मप्रकृतिषु गृहीतस्य मोहनीयान्तर्भूतस्य सम्यक्त्वस्य पुद्गलपर्यायात्मकत्वात् पुद्गलत्वमेव विद्यतेऽथ चेद सम्यक्त्वमात्मविशुद्धया क्षीणशक्ति कमपि भवति, अत इदं सम्यक्त्वं न मोक्षस्योपादानकारणभूतमात्मपरिणामविशेषात् औपशमिका दिनिमित्तात् सम्यग्दर्शनं भवति । यतो ह्यत्र सम्यग्दर्शनस्यात्मनोऽन्त परिणामात्मकत्वादुपादेयत्वम्, सम्यक्त्वप्रकृतेश्च पुद्गलपरिणामात्मकत्वाद् हेयत्वम् । अथ च सम्यक्त्वस्य क्षयादेव क्षायिकं सम्यग्दर्शनमुत्पद्यतेऽतोऽत्र सम्यग्दर्शनस्याहेयत्वात्, प्रधानत्वात् प्रत्यासन्नमोक्षकारणत्वाच्च पुद्गलरूपसम्यक्त्वेन विभेदोऽस्त्येवेति ।
एवमस्य सम्यग्दर्शनस्य सद्भावे सति सम्यग्ज्ञानम्, ततश्च सम्यक्चारित्रमुत्पद्यते, तत्तत्पूर्वकत्वात्तयोः । एते च त्रय एव समुदिता: मोक्षमार्गस्वरूपाः, न तु व्युदिताः कथमपि सम्भवन्ति ।
सम्यग्ज्ञानम्
मोक्षमार्गात्तभूतमिदं प्रमाणनयंजवादितत्त्वानां संशय-विपर्यय - अनध्यव
२१५
सम्प