________________
आसु लब्धिषु धादिमास्तु चतस्रः सामान्या एव, केवलं करणलब्धिरेव विशिष्टा, यतो हि, क्षयोपशमादिचतसृषु लब्धिषु जातास्वपि करणलब्धेरभावे सति न सम्यक्त्वमुपपद्यते। अस्मिन् जगत्यनादिकालात्परिभ्रमता जीवेन बहुशश्चतसृणां लब्धीनां संयोगोऽधिगतः, पर करणलब्धेरनुपलब्धात् न तेन सम्यग्दर्शनं लब्धम् । तथापि सम्यग्दर्शनोत्पत्तावेतासां चतसृणामपि लब्धीनामुत्पाद यावश्यकः । अत्रोपदेशोधिगमो वा देशनालब्धेरेव नामान्तरम् । अत एतन्निमित्तं यत्सम्यग्दर्शनं तदधिगमजमेब, यच्चैतद्व्यतिरिक्तमभावयुक्तं वा तन्निसर्गजमेव भवति । वर्शनस्य सम्यक्त्वम् कर्माधीनोऽयं जीवः यदा तन्निमित्तान्नवीनानि कर्माणि गृह्णाति, तदा तस्य तत्तत्कर्मनिमित्तकबन्ध-निकाचन-उदय-निर्जराद्यपेक्षया चतुर्गतिषु परिभ्रमणम्, तत्र स्थितत्वात् च तत्तत्कर्मणां शभाशुभफलोपभोग आवश्यक एव भवति । ततश्च तत्कर्मजनितपरिणामस्थानानि च समधिगच्छन्नयं जीवोऽनादिमिथ्यादृष्टिरपि स्वोपयोगस्वभावात्परिणामविशेषर्देशनालब्धिं विनैव (परोपदेशं विना) करणलब्धेर्भेदरूपस्यापूर्वकरणस्य परिणामान् समधिगच्छति, ततश्च तस्य सम्यग्दर्शनमुत्पद्यते । यद्यपि सम्यक्त्वोपपत्ती चतसृणामेव लब्धीना लाभ आवश्यकः, परं देशनालब्बेरभावे सम्यक्त्वोपपत्तो साक्षादसाक्षात्कृतो भेद एव हेतु. । अर्थात् साक्षात्परोपदेशादाप्ततत्त्वार्थश्रद्धानमधिगमजम्, तदभावे च निसर्गजं भवतीति । अस्यायमाशयः—यदनादिकालादेवावधि यावन्न येन जीवेन देशनानिमित्तं प्राप्तं, तस्य सम्यग्दर्शनस्य लाभोऽप्यसम्भवः । परं यस्य देशनालब्धेलाभेऽपि करणाभावात् सम्यग्दर्शनाभावस्तस्य कालान्तरे भवान्तरे चापि परोपदेशं विनैव करणलब्धर्भेदभूतस्यापूर्वकरणस्योत्पादे सम्यक्त्वोत्पादः सम्भवस्तदेव निसर्गज सम्यग्दर्शनमित्युच्यते । सम्यग्वानस्य मेदाः तदिदं सम्यग्दर्शनं सरागवीतरागभेदेन द्विविधं" भवति । तत्र मोहनीयकर्मणः सप्तकर्मप्रकृतीनामात्यन्तिके विनाशे सत्यात्मविशुद्धिरूपं यत्तद्वीतरागसम्यग्दर्शन मिति । एतद्विपरीत यत्सरागसम्यग्दर्शन, तत् प्रशम-संवेग-अनुकम्पा-आस्तिक्यभावरेवोत्पद्यते। ते च भावाः यथा
अनवर्शन आत्मभाव्यविवेत्रावर