________________
प्यूत्पन्न, तत्तस्य कथं नैसर्गिकत्वमुपयुज्यते, पूर्वगृहीतज्ञानात्मकत्वात्तस्याधिगमजत्वमेव स्यात् ? अथ च यदा जीवस्य सम्यदर्शनमुत्पद्यते, तदेव मत्यज्ञाननिवृत्तिपूर्वकं मतिज्ञानमपि सञ्जायतेऽतः दर्शनस्य ज्ञानोत्तरात्मकत्वात् कथं ज्ञानान्तरं नैसर्गिक दर्शनमुत्पद्यते ? तदेतन्न समांचीनम्, तद्यथा-अत्रदं विचारणीयम्-निसर्गाधिगमजयोर्द्वयोरपि दर्शनमोहस्योपशमः, क्षयः क्षयोपशमो वान्तरङ्गहेतुभूतं समानमेवास्ति । एतस्य सत्यपि यद्बाह्योपदेशमनपेक्ष्येवोत्पद्यते, तन्नसर्गिकं सम्यग्दर्शनमिति । यच्च परोपदेशापेक्षयवोत्पद्यते, न तु स्वभावतः कथमपि तस्योत्पादः शक्य., तत्परोपदेशिकं सम्यग्दनिमिति । यथा खलु जैनशास्त्रानुसारं कुरुक्षेत्र बाह्यप्रयत्नं विनैव स्वर्ण प्राप्यते, तथैव बाह्योपदेशं विनैवोत्पद्यमानं नैसर्गिकम, तथा च, यथा स्वर्णाकरेषु विविधैर्बाह्यप्रयत्न रेव स्वर्ण निःसार्यतेऽभ्युपगम्यते वा तथैव सदुपदेशात्, आगमाभ्यासादिभिर्वा यज्जायते तदधिगमजं सम्यग्दर्शनमित्युच्यते।
सम्यग्दर्शनोत्पत्तिकारणानि एतस्य द्विविधस्यापि सम्यग्दर्शनस्योत्पत्तौ पञ्चविधा लब्धयो हेतुभूताः सन्ति। ताश्चेमा - (१) क्षयोपशमलब्धि . (Destructive-Subsidential-Attai
nment) (२) विशुद्धिलब्धिः (Virtue Attainment)। (३) देशनालब्धि . (Precept-Attainment) । (४) प्रायोग्यलब्धिः (Completency-Attainment)।
(५) करणलब्धिश्चेति (Efficiency-Attainment)। अत्र यासामुत्पत्तावेव सम्यग्दर्शनस्योत्पत्तिः सम्भवा, एतादृशीना योग्यतानां प्राप्तिरेव लब्धिपदेनाभिहिता । तत्र आत्मना क्षयोपशमलब्धौ सत्या कर्मणां स्थितिरवशिष्टान्तःकोट्यकोटिप्रमाणा तिष्ठति। विशुद्धिलब्धौ च सत्यां जीवस्य परिणामेषु भद्रता, नैर्मल्यञ्च समागच्छति । देशनालब्धौ च सद्गुरोरुपदेशात् जीवाजीवयो, संसारमोक्षयोः, सप्ततत्त्वानां, नवपदार्थानां, षड्द्रव्याणाञ्च स्वरूपस्थितेनिं सजायते, येन सम्यग्दर्शनं सुपुष्टं भवति । संज्ञि पर्याप्त-जागुतावस्था-साकारोपयोगयोग्यतानामधिगमः प्रायोग्यलब्धिरित्युच्यते। करणं नामात्मनः परिणामः, स च त्रिविधः-अधोऽपूर्वानिवृत्तभेदः ।
सम्यग्दर्शनम्
२१३