________________
मधिगृहीतुमिच्छति तदा तेन यद्वस्तुनो सन्निपातः - निराकारग्रहणं, तदेव दर्शनपदभाग्भवति । नेमिचन्द्राचार्यैस्त्वेतद्विषयेऽभिहितम्, यत्- 'यदानेनात्मना कश्चित्पदार्थोऽधिगतस्ततश्चान्यत्पदार्थज्ञाने यदा प्रयतते, तत्कालं यावत्, अर्थात्पूर्वाधिगतस्य पदार्थज्ञानस्य अधिग्रहण कालादन्यत्पदार्थाधिग्रहण कालात्पूवर्तनी यात्मनो निराकारावस्था, सँव दर्शनमित्युच्यते", अर्थादात्मनो सावस्था दर्शनम्, यस्यां ज्ञेयपदार्थः न प्रतिभासते । अतएव पदार्थानां सामान्यावलोकने दर्शनं प्रसिद्धम् । तदेतत् दर्शनमेव बौद्ध परिकल्पितेन निर्विकल्पेन, नैयायिकादिभिस्स्वीकृतेन निर्विकल्पक प्रत्यक्ष ेण च साम्यं भजते ।
दर्शनस्योत्पादः
जगतियावन्तोऽपि जीवास्सन्ति, तेषां तत्त्वार्थेषु यत् श्रद्धानमुत्पद्यते तद्विविधम्- निसर्गज, परोपदेशजश्चेति" । अत्र निसर्ग. स्वभाव परिणाम:, अपरोपदेशो वा समानार्थकत्वात्पर्यायवाचिनः । अर्थात् तत्त्वार्थेषु परोपदेशं विनैव यज्जीवेषु श्रद्धानमुत्पद्यते, तस्य स्वभावत एव परिणामविशेषत उत्पन्नत्वात् 'निसर्गजम्' इति व्यपदेश । यच्च परोपदेशादेव, न तु स्वभावत, परनिमित्तकपरिणाम विशेषत उत्पद्यते, तत्परोपदेशजमिति व्यपदेश । तथाहिजीव खलु ज्ञानोपयोग दर्शनोपयोगलक्षणोऽनादिकालादस्मिन् जगति परिभ्रमन्, कर्मनिमित्तान्नवीनाना कर्मणा ग्रहणात्तेषा कर्मणा बन्ध" -निकाचन"-उदय"निर्जराद्यपेक्षया " नारक- तिर्यङ्-मनुष्य-देवयोनिषु जन्म-मरणादीन् प्राप्नुवन्, तत्र नानाविधान् पुण्य-पापपरिणामांश्चोपभुञ्जन्, ज्ञानोपयोगदर्शनोपयोगस्वभावात् तत्तत्परिणामाध्यवसायविलक्षणानि स्थानानि समधिगच्छति । येषाञ्चाधिगमेऽनादिमिथ्यादृष्टेरपि जीवस्य परिणामविशेषादेव विधमपूर्वकरणं जायते, यन्निमित्तादुपदेश विनैव सम्यग्दर्शनमुत्पद्यते एतदेव निसर्गजेतिपदेन व्यवह्रियते ।
"
अधिगमोऽभिगम आगम, निमित्त, श्रवणं (शब्दः), शिक्षा, उपदेशश्चेत्यादयः समानार्थकाः । एतन्निमित्तक दर्शनं परोपदेशजन्यम्, आगमश्रवणाध्ययनजन्यमन्यनिमित्तादुत्पन्नं वा यत् तत्त्वार्थेषु श्रद्धानात्मकं सम्यग्दर्शनं सञ्जायते तदेव परोपदेशजमित्युच्यते ।
अत्र कैश्चिदिदं शक्यते यत्, यथा खलु कश्चित् पुरुषो यावन्न तत्त्वाना सामान्येन ज्ञायको भवेत् तावत्कथ तस्य तत्त्वार्थेषु श्रद्धान भविष्यति ? यदा च तेन येन केनापि प्रकारेण पदार्थाना ज्ञानं सम्प्राप्तं तदा तत्श्रद्धानं पदार्थेष्व
जैनदर्शन आत्म- द्रव्यविवेचनम्
२१२