________________
रूपमिन्द्रियातीतं चैतन्यमेवास्ति । इदमेव चैतन्यमिन्द्रियमन प्रभृतिपदार्थनिमित्तात् नानाविधंविषयबुद्धिषु परिणतं भवति, एतासामुपाधीनां बिनम तस्य चैतन्यस्य स्वस्वरूपयुक्तत्वं स्वाभाविकम् । यद्यप्यत्र कर्मजन्यानां सुखदुःखादीनां विनाशः, कर्मणां क्षयोपशमजन्यस्य क्षायोपशमिकज्ञानस्य स्थितिश्च जमैरपि स्वीकृता विद्यते, परमात्मनः स्वस्वरूपचैतन्यस्य विनाशः स्वरूपस्याच्छेदकत्वान्न कथमपि स्वीकृतम् । इत्थं ज्ञायते, यदत्र 'आत्मनिर्वाणम्' न तु दीपनिर्वाणवत्स्वीकरणीयम्, मात्र तत्र गुणानामत्यन्तो विनाश. । यतो हि, अत्र क्लेशादीनां कर्मणा वा विनाश, स्यायमेवार्थ उपयुक्तः यत्-कर्मपुद्गलाः जीवात्सर्वथा पृथक्त्वं-भिन्नत्वं लभन्ते, . न तेषामत्यन्तो विनाशः कदापि जायते । यतो हि, पदार्थदृष्ट्या न कस्यचिदपि सत्पदार्थस्यात्यन्तो विनाशो जातः, जायते, भविष्यति वा। पर्यायान्तरेण परिणमनमेव पूर्वपर्यायस्य नाश इत्युच्यते। एवं न तु निर्वाणदशायामात्मनोऽभावो भवति, नापि तद्गुणानां सर्वथोच्छेदात् अचेतनत्वमुपगच्छति सः । यदा खल्वात्मा स्वतन्त्रो मौलिको वा पदार्थस्तदा तदभावस्य तद्गुणोच्छेदस्य वा कल्पनमनुचितमेवेति।
सम्यग्दर्शनम् जडपदार्थेभ्य आत्मनो व्यावर्त्तकमात्मगुणभूतं चैतन्यं निराकाररूपं दर्शनं, साकाररूपञ्च ज्ञानमित्युच्यते । एतयोर्द्वयोरपि आत्मनि सान्निध्यात् सहभाविगुणात्मकत्वात् 'उपयोग इत्यपि संज्ञास्ति । एष उपयोगश्चात्मनो लक्षणम् । अतो यदाऽऽत्मा पदार्थानवगच्छति तदा तेषां पदार्थानां य. निराकारात्मकोऽवबोधस्तद्दर्शनम्, यश्च साकारात्मकोऽवबोधस्तज्ज्ञानमित्युच्यते । एतस्य दर्शनस्य विवेचने वाचकमहोदयैरभिहितं यत्
'तत्त्वार्थभवानं सम्यग्दर्शनम्॥ अर्थात् योऽर्थः यथावस्थितस्तस्य तथैव श्रद्धानं तत्वार्थश्रद्धानम् । एतदेव सम्यग्दर्शनं वस्तुनो यथार्थस्वरूपस्य प्रथमनिराकारग्रहणमित्यर्थः । यद्यपि संस्कृतवाङ्मये दर्शनशब्दस्य विभिन्नाः व्याख्याः विद्यन्ते, यासु प्रमुखानां विवेचनं प्रथमेऽध्याये कृतम् । तासु दर्शनस्य व्याख्या चैतन्याकारपरिधिमुल्लध्य पदार्थानां सामान्यावलोकनं यावत्समागता। जैनसिद्धान्ते चास्य निराकाररूपेणान्तरङ्गार्थविषयकत्वमेव स्वरूपं स्वीकृतम् । तत्र विषयविषयिणोः सन्निपात एव दर्शनमिति स्वीकृतम् । अर्थाद्यदायमात्मा पदार्थसम्यग्दर्शन
२११