________________
न दीपनिर्वाणवदात्मनिर्वाणम् किञ्चात्र यया बौद्धर्दीपनिर्वाणवद् आत्मनिर्वाणं स्वीकृतम्, न तग्राह्यम् । यतो हि, बौद्धरात्मनिर्वाणविषयेऽनेकाः कल्पनाः कृताः, तद्यथा-चित्तसन्ततेः निरास्रवत्वं सोपाधिनिर्वाणम्, यच्च दीपनिर्वाणवच्चित्तसन्ततेः निर्वाणं तन्निरुपाधिनिर्वाणमिति । अत्र रूप-वेदना-विज्ञान-संज्ञा-सस्काररूपेणात्मनः स्वीकरणस्यवायं परिणामः यनिर्वाणदशायामपि आत्मनो निर्वाणम्अनस्तित्वमेभिः स्वीकृतम् । अत्रेदं विचारणीयम्, यत् निर्वाणे यदि दीपप्रकाशवद् चित्तसन्ततेनिरोधः स्वीक्रियेत, तर्हि आत्मनोऽप्युच्छेदावसरः प्राप्यते, चार्वाकस्य नास्तित्ववादवत् । यतो हि निर्वाणावस्थाया समूलोच्छेदस्वीकारे, मरणानन्तर वोच्छेदस्वीकारे, नो कश्चनापि विभेद । किन्तु या चित्तसततेरभौतिकत्वात्तत्प्रतिसधि(परलोकगमनम्)रपि स्वीकता तस्या निर्वाणावस्थायां तु समूलोच्छेद इति तस्यानौचित्यमेव प्रतिभाति । अतो मोक्षावस्थाया चित्तसन्तते. सत्ता स्वीकरणीयैव भवति, यतो हि, सानादिकालादास्रवादिभिर्मलिना भवन्ती साधनादिभिनिरास्रवत्वमुपगच्छति । निर्वाणस्वरूपप्रतिपादने आचार्यकमलशीतेनाप्येतद्विषयक. श्लोकोऽयमुद्धृत.
चित्तमेव हि संसारो, रागादिक्लेशवासितम् ।
तदेव तैविनिर्मुक्तं, भवान्त इति कथ्यते ॥ नापि जानादिगुणानां सर्वथोच्छेदो मोक्षः वैशेषिकस्तावद् बुद्धि-सुख-दुःखेच्छादिनवविशेषगुणानामुच्छेदरूपो मोक्षः स्वीकृत. । अभि प्रतिपादितम्-यदेषा विशेष-गुणानामुत्पत्तिः आत्मनो मनसश्च संयोगाज्जायतेऽत. मनासयोगाभावे तु मोक्षावस्थायामेतेषामनुत्पादस्तस्मात्तत्रात्मनो निर्गुणत्वमेवोपपद्यते, गुणानाञ्च कर्मजन्यत्वान्न तत्र सत्ता व्यवतिष्ठते । पर बुद्धे.-ज्ञानस्यात्मनो गुणभूतस्योच्छेदो नात्र सर्वथा स्वीकर्तव्यः । यद्यपि संसारावस्थायां यदाशिक ज्ञानमिन्द्रियमन.सयोगादुत्पद्यमानमासीत्, तस्याभावस्तु मोक्षावस्थायां सुनिश्चितमेव, परन्त्वस्य यत्स्वरूपभूतं चैतन्यमिन्द्रियैर्मनसा च परम्, न तस्योच्छेदः केनापि शक्यः, सम्भाव्यो वेति । या च निर्वाणावस्थायामात्मन स्वरूपेणोपस्थितिः वैशेषिकः स्वीकृता, तत्स्व२१०
जनदर्शन मायाव्यविवेचनम्